पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
नृसिहप्रसादे

णीयम् । पित्र्येष्ञ्या साकमेधमहापितृयज्ञे, सौमिके मखे तातीर्यस वनिकैः पुरोडाशग्वण्डैः स्वयजमानपितृभ्यो यत् क्रियते तत्रेति । स्पष्टमन्यत् । जीवतः पितुः इतीदं वचनं तेषामेव शाखिना

न जीवत्पितृकः कुयाच्छूद्धमग्निमृते द्विजः ।
येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः? इति ।

ततो वराहसूत्रोपजीविना जीवत्पितृकाणा सामिकानामेव

पट्स्वेतेषु श्राद्धेषु नान्येषामिति ! यतस्तत्र गृह्यपरिशिष्टश्रवणात् ,
अतस्तेषामेवेति सिद्धम् । तथा अन्येषामपि जीवत्पितकाणां
नान्दीश्राद्धे नाधिकार इत्यभिधीयते, तथा च कात्यायन -

“सपितुः पितृकृत्येषु त्वधिकारो न विद्यते ।
न जीमन्तमतिक्रम्य किञ्चिद्दद्यादिति श्रुतेः? इति ।

अयमर्थ –पितृकृत्येषु श्राद्धेषु पितामहादिसम्बद्धेष्विति ।

सह पित्रा यो वर्तते तस्य सपितुः । अन्या च स्मृतिः–“पित्र्यं
जीवत्पितुनोक्तम्' इति । होमोऽपि पाक्षिकः-“न जीवन्तमतिक्रम्य
किञ्चिद्दद्यादिति श्रुते ' । अत एव सुमन्तु

न जीवत्पितृकः कुर्याच्छाद्धमग्मृिते द्विज ।
येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः ।।
पिता पितामहेऽप्येव कुर्याज्जीवति साग्किः ।
साग्निकोऽपि न कुर्वीत जीवति प्रपितामहे' इति ।

तथा -

“कन्यापुत्रविवाहेषु प्रवेशे नववेश्मनाम् ।