एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तथा
‘‘अश्रोत्रियाय दत्तं हि पितृभिप्रैति देवताः" इति ।।
“अर्थज्ञो वेदविन्मन्त्री ज्ञानवंशकुलान्वितः ।।
पुराणवेत्ता सर्वज्ञः स्वाध्यायजपतत्परः।
शिवभक्तः पितृभक्तः मूर्यभक्तोऽथ वैष्णवः ।
ब्रह्मण्यो योगविच्छन्तो विजितान्माऽथ शीलवान" इति
श्राद्धे नियोज्य इति शेषः ।।
गायत्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी" इति ।
चीर्णव्रता गुणैर्युक्ता भवेयुरेंच धार्मिकाः।
सावित्रीज्ञाः क्रियावन्तस्ते राजन् केतनक्षमाः।
सावित्री तु जपेद्यस्तु द्विकालं भरतर्षभ ।
भैक्षवृत्तिः क्रियावांश्च स राजन् केतनक्षमः। इति ।
मत्स्यः
’गायत्रीजप्यनिरतं हव्यकव्ये नियोजयेत् ।।
पापं तिष्ठति नो तस्मिन् अब्बिन्दुरिव पुष्करे’ इति ।
tah