कटुर-सैन्धव-साम्भर-पनस-नारिकेल-कदली-बदर-व्य - पयो-दधि-घृत-पायस-मधु-मास प्रभृति स्मृत्यन्तरप्रसिद्धं वेदित व्यम् । पनसमिति कौङ्कणदेशप्रसिद्धः फलविशेषः । मुन्यन्नमिति यदफालकृष्टश्यामाकनीवारादि तदभिधीयते । नच वानप्रस्थप्रसिद्धम् ।
हविष्यामित्यनेनैवायोग्यस्य स्मृत्यन्तरश्रसिद्धकोद्रवमसुरचक कुलित्थ पुलक निष्पाव राजमाष वातोऊ बृहतीद्वयोदकी वंशाइकुर पिप्पली वचा शतपुष्पोमा विहल कृत्रिमलवण माहिषचमरीक्षीर दधि घृत कवकादीनि निषिद्धानि । यान्यत्राप्रसिद्धानि द्रव्याणि तानि वैद्यकशास्त्रे द्रष्टव्यानि । क्रोधहेतुसम्भवेऽप्यक्रोधनः, अवरो ऽव्यग्रः । देयमातृप्तेः शब्दात् यत् किंचिदुच्छिष्यते तदद्यात् । उच्छेषणस्य दासवर्गभागित्वात् । उच्छेषणं ब्राह्मणेषु विस जितेषु निक्षेप्यं भूमौ ।
‘‘उच्छेषणं भूमिगतमजिह्मस्याशठस्य च ।
दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते” इति मनुः (३२४६)
तत्र व्याप्त
“अश्राद्धपानि धान्यानि कोद्रवाः पुलकास्तथा ।
हिङ्गुर्देव्येषु शाकेषु कालानलशुभास्तथेति ।
भावः । संस्कारद्रव्येषु हिङ्गुद्रव्यमश्राद्धेयम् । कालः कुष्णाञ्जनः,
अनलश्चित्रकःशुभाः शुम्भाख्यः शाकविशेषः । एतानि शाका
दीनि न श्रद्धेयानि ।