तथाच स्मृत्यन्तरम्
भक्षांश्च दधिनीपमातुलिङ्गकानि वर्जयेदिति ।
‘नक्तोद्धूतं तु यत्तोयं पल्वलाम्वु तथैव च ।
स्वल्पाम्बु कूष्माण्डफलं वजकन्दश्च पिप्पली ।
तन्दुलीयकशाकं च माहिषं च पयो दधि ।
शैविकानि करीराणि कोविदारं गवेधुकम् ।
कुलत्थ शणजीराणि करम्भाणि तथैव च ।
अब्जादन्यद्रक्तपुष्प शिशुः क्षारस्तथैव च ।
नीरसान्यपि सर्वाणि भक्ष्यभोज्यानि यानि च ।
एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्मणि ।
आविकं मार्गमौष्ट्र च सर्वरैकशफं च यत् ।
माहिषं चामरं चैव पयो वज्यं विजानते"ति ॥
‘‘कृष्णाजाजी विटं चैव शोतपाकी तथैव च ।
वर्जयेव्वणं सर्व तथा जम्बुफलानि च ॥
अवज्ञातावरुदितं तथा श्रद्धेषु वर्जयेत् ।
कृष्णाजाजी कृष्णजीरका, विटं विडाख्यं लवणम् ।
‘‘शासनारूढमन्नायं पादोपहतमेव च ।
अमेध्यान्तर्गतैः सृष्टं शुष्कं पर्युषितं च यत् ।
द्विः स्विन्नं परिदग्धं च तथैवाग्रावलेहितम् ।