पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६
नृसिहप्रसादे

शर्कराकीटपाषाणैः कचैर्यचाप्युपद्रुतम् ।
पिण्याकगर्भितं चैव तथाऽतिलवणं च यत् ।
सिद्धाः कृताश्च ये भक्ष्याः प्रत्यक्ष लवणीकृताः ।
वाग्भावदुष्टश्च तथा दुटैश्चोषहता अपि ।
वाससा चावधूतानि वज्र्योनि श्राद्धकर्मणि’ इति ।

द्विक्षस्विन्न द्विपक्वं, परिदग्धमतिदर्थं, अग्रावलेहितं पूर्वमेवा

न्येनास्त्रादितं, मथितं विलोडितं निर्जलं दधि । सिद्धा भक्ष्या
आमलकादयः । प्रत्यक्षलवणीकृताः भोक्तरि पश्यति लवणेन ।
मिश्रिताः ।
याज्ञवल्क्यः

“सन्धिन्यनिर्दशावत्सागोपयः परिवर्जयेत् ।।
औष्ट्रमैकशफं स्त्रैणमारण्यकमथाविकमू” इति ।

या वृषेण सन्धीयते सा सन्धिनीत्युच्यते । अनिर्दशरात्राः,

वत्सरहिताः । तासां गवा पयः परिवर्जयेत् । आरण्यकपयोनिषेध
स्तु आरण्यमहिषीपयोव्यतिरिक्तविषयः ।

“अनिर्दशाया गोः क्षीरमौष्ट्रमैकशकं तथा ।
आविकं सन्धिनीक्षीरं विवत्सायाश्च गोः पयः ॥
आरण्यानां च सर्वेषां सृगाणां माहिषं विना

इति मनुस्मरणात् ।

सन्धिनीतीरप्रभृति कामतो भक्षयित्वा त्रिरात्रमुपवासः । अ
कामतवेदहोरात्रमुपवासः । तदाह मनुः--
शेषेऽपवसेददरि’ति ।