तदुक्त शब्द्धेन
अपूपाः सक्तवो धानास्तनं दधि घृतं मधु ।
एतत्पण्येषु भोक्तव्यं सान्द्रलेपो न चेद् भवेत्" इति ।
तथा–पर्युषितमपि किचिदोक्तव्यम् । यथा
‘अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसस्थितम् ।
अस्नेहा अपि गोधूमयवगोरसविक्रियार्थ इति ।।
“अभोज्यं प्राहुराहारं शुक्तं पर्युषितं च यत् ।
अपूपा यवगोधूमविकारा मण्डकादयः ” ।
विकारोपादानार्थम् । कृसरं तिलोदनम् । स्नेहसंयुक्तं घृतेन दध्ना
वा ऽभिघारितम् । एतत् सर्वं पर्युषितं शुक्तव्यतिरिक्तं भोज्यम् ।
शुक्तमत्यलम् ।
अत्यम्लं शुक्तमाख्यात निन्दित ब्रह्मवादिभिरिति
बृहस्पतिस्मरणात् ।
न्तरसंसर्ग कालपरिवासाभ्यां वा यदस्लीभवति पायसादि न द
ध्यादि तदभिधीयते । रात्रयन्तरितं पर्युषितं, ततः शुक्तप्रतिषेधो
दध्यादिव्यतिरिक्तविषयः ।
“दधि भक्ष्यं च शुक्तेषु सर्वे च दधिसम्भवम् ।
रुच्यं सपकं भक्ष्यं स्यात् सर्वे युक्तमितिस्थितिरिति
सङ्घस्मरणात् ।