पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५
श्राद्धसारे द्रवद्रव्यशुद्धिः

शङ्क'
उपवनं पूर्वभागस्थितस्य कस्य चिदशस्यापनयनम् । अघिक
अरिमाण्वतां प्लवनं द्रवाणा त्याग इति । तत्र प्रकार घृततैला
दीनां ककाद्युपहतानां प्रस्थमात्रपरिमाणाना किंचित् दूरीकृत्य
दशैः पत्रमानः सुवर्जन इत्यनुवाकेन शुद्धिः स्यात् । स्वल्पानां
त्याग एव। संहतानां कठिनानामामिक्षादीनामुपहतप्रदेशत्यागेन श्रो
क्षणाच्छुद्धिः । आधारभाण्डे स्थितं गोपय आदि न दुष्यति ।

“आधारदोषे तु नयेत् पात्रात् पात्रान्तरं द्रवम् ।
घृतं तु पायसं क्षीरं तथैवेक्षुरसो गुडः ॥
शुद्भाण्डस्थितं ती तथा मधु न दुष्यति इति स्मरणात् ।।

यम.--

श्रममांसं घृतं क्षौद्रं स्नेहाश्च फलसम्भवाः ।
स्म्लेच्छभाण्डस्थिता दूष्या निष्क्रान्ताः शुचयः स्मृताः” इति ।

इदं च द्रोणाधिकद्रव्यविषयम् । देशकालाद्यपेक्षया अल्पमप्य


“निर्यासानां गुडानां च लवणानां तथैव च ।
कुसुम्भकुङ्कमाना च अणकापांसयोस्तथा ॥
विशेषात् कथिता शुद्धिरित्याह भगवान् यमः ।

निर्यासा हिङ्गभृतयः। इनं स्वल्पपरिमाणविषयम्, बहूनां तु

चण्डालादिस्सर्राऽपि प्रोक्षणेनैव शुद्धिः। अत्यल्पानां परित्याग एव,
तदपि देशकालाद्यपेक्षया परित्याज्यम् ।