तथा गुरुः
‘काङन्ति पितरः पुत्रान्नरकाघातभीरवः ।
गया यास्यति यः कश्चित् सोऽस्मान् सन्तारयिष्यति ।
करिष्यति वृषोत्सर्गमिष्टापूर्न करिष्यति ।
पालयिष्यति वृद्धत्वे श्रद्धं दास्यति चान्वहम् ।
गयाय धर्मपृष्ठे च सदमि ब्रह्मणस्तथा ।
गयाशीर्षे वटे चैव पितृण दत्तमक्षयमिति ।
‘नदीसमुद्रतीरे व हदे गोष्ठे च पर्वते ।
समुद्रगनदीतोये सिन्धुसागरसङ्गमे ।
नद्योघे सङ्गमे राजन् शलग्रामशिलन्तिके ।
पुष्करे वा कुरुक्षेत्रे प्रयागे नैमिषेऽपि वा ।
शालग्रामे च गोकर्णे गयाया च विशेषतः ।
तीर्थेष्वेतेषु यः श्राद्धं पितृभक्तिसमन्वितः ।
करोति विधिवन्मर्यः कृतकृत्यो विधीयत इति ।
‘गयाशीर्थेऽक्षयवटेऽमरकण्टकपर्वते ।
शावतें विल्वके नीलपर्वते उज्वले भृगुतुङ् केदारे महालये मल्लि
कायां सुगन्धायां फल्गुतीर्थे महगङ्गायां तण्डुलिकाश्रमे कुमारधरा
यां प्रमासे यत्र क्वचन सरस्वत्या विशेषतो नैमिषारण्ये वाराणस्या
मगस्त्याश्रमे कण्वाश्रमे कौशिक्यां सरयूतीरे शोणस्य ज्योतिरयोध्या