पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१००४

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८५
एकविंशः सर्गः।

शोकश्चेत्कोकयोस्त्वां सुदति तुदति तव्द्याहराज्ञाकरस्ते
 गत्वा कुल्यामनस्तं व्रजितुमनुनये भानुमेतज्जलस्थम् ।
बद्धे यद्यञ्जलावप्यनुनयविमुखः स्यान्ममैकग्रहोऽयं
 दत्त्वैवाभ्यां तदम्भोञ्जलिमिह भवतीं पश्य मामेष्यमाणम् ॥ १६२ ॥

 शोक इति ॥ हे सुदति, कोकयोर्विरहजनितः शोकः सदयत्वात्त्वां चेत्तुदति, तत्तर्हि व्याहर आज्ञापय । ते आज्ञाकरोऽहं कुल्यां गत्वा एतस्याः कुल्याया जलस्थमुदकप्रतिबिम्बितं भानुं सूर्यमनस्तमस्ताभावं व्रजितुं प्राप्तुम् अस्तमगन्तुम्, यद्वा-अनस्तमस्ताचलप्रतियोगिभूतमुदयाचलं गन्तुमनुनये प्रार्थये । इदानीं त्वयास्तो न प्राप्तव्यः पुनरुदयाचलो वा गन्तव्य इत्येवं सूर्यं करसम्पुटयोजनपूर्वं सम्प्रार्थ्य पुनः प्राचीं नेष्यामीति यावत् । यदि मयाञ्जलौ बद्धेऽप्ययं सूर्यो ममानुनये प्रार्थनायां विमुखः स्यात्, यतः- एकः केवलो ग्रहोऽभिनिवेशो यस्य, अथच-मुख्यो ग्रहो ग्रहराजः, तत्तर्हि सूर्यार्घ्यदानसम्बन्धिनमम्भोञ्जलिमाभ्यां कोकाभ्यामेव दत्त्वा इह प्रासादे भवतीं प्रति पुनरेष्यमाणमागमिष्यन्तं मां पश्य । एवं कोकनोदनव्याजेन 'बहिः सन्ध्यामुपासीत' इति वचनात्सायंसन्ध्योपासनानिमित्तं बहिनिर्गमनार्थमनुज्ञां याचितवानिति भावः । सुदतीत्यनेनोक्त्यनन्तरमीपद्दशनकिरणप्रकाशेन मम महानानन्दो जनिष्यते तदर्थं व्याहरेति प्रार्थ्यस इति सूच्यते। दत्त्वेवेति पाठे-उत्प्रेक्षा। एष्यमाणम्, गत्यर्थादीङो लुटःशानच्॥

तदानन्दाय त्वत्परिहसितकन्दाय भवती
 निजालीनां लीनां स्थितिमिह मुहूर्तं मृगयताम् ।
इति व्याजात्कृत्वालिषु चलितचित्तां सहचरीं
 स्वयं सोयं सायंतनविधिविधित्सुर्बहिरभूत् ॥ १६३ ॥

 तदिति ॥ सोऽयं नलः स्वयं सायन्तनं विधिं सन्ध्याग्निहोत्रादिकं कर्म विधित्सुः कर्तुकामः सन् प्रासादाद्वहिरभूत्, निरगादित्यर्थः । किं कृत्वा-इतिव्याजादेवम्प्रकारेण सूर्यानुनयसखीगवेषणमिषेण सहचरीं भैमीमालिषु सखीषु चलितं गवेषणोत्सुकं चित्तं यस्यास्तादृशीं कृत्वा । इति किम्-हे प्रिये, अहं सूर्यानुनयार्थे नदीं प्रति गमिष्यामि, भवती च निजालीनां निजसखीनामिहात्रैव कस्मिंश्चित्प्रदेशे त्वया न द्रष्टव्यमिति लीनां गुप्तां स्थितिं त्वत्कर्तृकं त्वत्कर्मकं वा परिहसितं परिहासक्रीडैव कन्दो मूलमुत्पत्तिहेतुर्यस्य तादृशं यत्तज्जनिताय तासां सखीनामानन्दाय मुहूर्ते मृगयतां गवेषयत्विति । एवं तद्वचनाभ्दैमी क्वचिल्लीनाः सखीर्गवेषयितुं निर्गता, नलोपि सायंसन्ध्यां कर्तु बहिर्निरगादित्यर्थः । सायन्तनेत्यादिनोत्तरमर्गसङ्गतिः सूचिता । विधिविधित्सुः, 'द्वितीया' इति योगविभागात्समासः ॥