पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०११
द्वाविंशः सर्गः


 सुधेति ॥ सुधाभुजो देवा एनं चन्द्रं परिपीय साकल्येन पीत्वा तुच्छं रिक्तं यद्वितन्वन्ति कुर्वन्ति तदर्हमुचितमेव, यतोऽस्य पिता सिन्धुरपि कलशोद्भवेनागस्त्येन पुरा निपीय तुच्छो रिक्तः अकारि, तस्मात्कुलक्रमागतं तुच्छत्वमित्यर्थः । एतस्य पूर्वेपि परोपकारनिरताः, तस्मादयमपि तथैवेति भावः। कलशादुत्पन्नेनापि सागरस्य पानमित्याश्चर्यम् ॥

चतुर्दिगन्तीं परिपूरयन्ती ज्योत्स्नैव कृत्स्ना सुरसिन्धुबन्धुः ।
क्षीरोदपूरोदरवासहार्दवैरस्यमेतस्य निरस्यतीयम् ॥ ७० ॥

 चतुरिति ॥ चतुर्णां दिगन्तानां समाहारस्ताम् । चतुर्दिक्प्रान्तानित्यर्थः । (तां) परिपूरयन्ती सामस्त्येन व्याप्नुवती, तथा -श्वैत्यात्सुरसिन्धोर्मन्दाकिन्या बन्धुः सदृशी । तथा--कृत्स्ना पूर्णा इयं ज्योत्स्नैवैका क्षीरोदपूरोदरे वासः स्थितिस्तस्य हानाद्वहुकालपरित्यागाद्धेतोरेतस्य चन्द्रस्य वैरस्यं क्षीरसागरविरहजनितं दुःखं निरस्यति नाशयति । असौ चन्द्रिकायामेव क्षीरसागरबुद्दया पितृवियोगदुःखं परित्यजतीत्यर्थः । सकलदिगन्तव्यापिधवल चन्द्रिकामध्यवर्ती चन्द्रः क्षीरसागरमध्यस्थ इव शोभत इति भावः । गङ्गाबहुग्धवञ्चयं कौमुदीति । चतुर्दिगन्तीम्, समाहारे द्विगोर्ङीप् ।

पुत्री विधोस्ताण्डविकास्तु सिन्धोरश्या चकोरस्य दृशोर्वयस्या।
तथापि सेयं कुमुदस्य कापि ब्रवीति नामैव हि कौमुदीति ॥७१॥

 पुत्रीति ॥ इयं चन्द्रिका यद्यपि चन्द्रात्प्रसूतत्वाद्विधोः पुत्री अस्तु । सिन्धोः समुद्रस्य ताण्डविका नृत्तोपदेशिका नटयित्री अस्तु । चन्द्रिकया हि सिन्धुरुल्लास्यते, सा च तम्य नप्त्री भवति । यद्वा---इयं विधोः पुत्री सिन्धोस्ताण्डविका भवतु । तथा-चकोरस्य अश्या पेया भवतु । तथासकललोकस्य दृशोः प्रेमपात्रतया वयस्या सखी भवतु । तथापि संयं चन्द्रिका कुमुदस्य कापि अनिर्वचनीया संबन्धिनी भवतु । पूर्वनिर्दिष्टसर्वापेक्षया कुमुदस्यैव निरतिशयानन्दकारित्वात्केनाप्यनिर्वचनीयेन संबन्धिनी भवत्वित्यर्थः । हि यस्मात्कौमुदीति नामैव कर्तृ ब्रवीति । सर्वेषां तत्तत्संबन्धसंभवेऽपि कुमुदानामियं कौमुदीति, 'तस्येदम्' इति संबन्धेऽण् । कुमुदानामेव प्रीत्यतिशयेन संवन्धं वदतीत्यर्थः । कौमुदीति नामैव हि स्पष्टं ब्रवीतीति वा । चन्द्रिकया सर्वेषामप्यानन्दः कृतः । कुमुदानां तु विशेषत इति भावः । कार्येण कारणानुमानम् । ताण्डविका, अर्शआद्यजन्तान्मनुबन्ताद्वा ताण्डवशब्दात् 'तत्करोति-' इति ण्यन्ताण्ण्वुल् । अशनमशिः, 'इकृष्यादिभ्यः' इतीकि अशिमईतीति दण्डादित्वाद्यत् । 'आश्या' इति च पाठः॥

ज्योत्स्नापयःक्ष्मातटवास्तुवस्तुच्छायाछ्वलच्छिद्रधरा धरायाम् ।
शुभ्रांशुशुभ्रांशकराः कलङ्कनीलमभामिश्रविभा विभान्ति ॥७२॥

 ज्योत्मेति ॥ शुभ्रांशोश्चन्द्रस्य शुभ्रांशा धवलभागाश्च ते कराश्च किरणास्ते धरायां