पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
नैषधीयचरिते

अमितं मधुं तत्कथा मम श्रवणमाघुणकीकृता जनैः ।
मदनानलबोधने भवेत्खग धाय्या धिगधैर्यधारिणः ॥ ५६ ॥

 अमितमिति ॥ हे खग, हंस, जनैर्लोकैः श्रवणयोः प्राघुणकीकृतातिथीकृता श्राविता तस्या भैम्याः कथा मम मदनानलस्य कामाग्नेर्बोधने दीपने धाय्या अग्निसंधुक्षणे समर्था ऋग्भवेद्भवति । तया यथाग्निर्दीप्यते तथा तत्कथया मम मदनाग्निर्दीप्यते । किंभूता तत्कथा-अमितमनुपमं, बहु वा मधु । दिव्यापरिमितामृततुल्येत्यर्थः। अतोऽधैर्यधारिणो मत्सदृशानधीरान्पुरुषान्धिक् । एतादृशा अधीरा निन्द्याः। मम (इत्यस्य) विशेषणम्, अधैर्यधारिण इति वा । तदा मां धिगित्यर्थः । ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धनी' इत्यमरः ||

विषमो मलयाहिमण्डलीXविषफूत्कारमयो मयोहितः ।
खग कालकलत्रदिग्भवः पवनस्तद्विरहानलैधसा ॥ ५७ ॥

 विषम इति ॥ हे खग, तद्विरहार्नलः ममीवियोगवह्निस्तस्यैधसा इन्धनेन मया कालकलत्रं दिक् दक्षिणा तत्र भवः पवनो वायुर्दक्षिणवातः विषमो दुःसहः ऊहितस्तर्कितः । किंभूतः-मलयाचले वर्तमाना अहिमण्डली भुजंगसमूहस्तस्य विषं तस्य फूत्कारमयोऽग्निसंधुक्षणधमनवायुरूपः । विषं माति आत्मना समीकरोतीति वा । विषं मयते ददाति वा । कालयति सर्वभूतानीति कालस्तत्पुत्रस्त्वेवंविध एव संभाव्यते । फूत्कारसंधुक्षितेन वह्निना यथा काष्ठं दह्यते तथा मलयपवनसंधुक्षितेन विरहानलेनाहमपि दह्ये इति भावः । मलयाचले चन्दनबाहुल्यात्सर्पबाहुल्यम् । विषम इति 'आतोऽनुपसर्गे कः' । फूत्कारमय इति ताद्रूप्ये प्राचुर्ये वा मयट् । कालेति नोदनार्थात्कालयतेश्चौरादिकात्पचाद्यच् ॥

प्रतिमासमसौ निशापतिः खग संगच्छति यदिनाधिपम् ।
किमु तीव्रतरैस्ततः करैर्मम दाहाय स धैर्यतस्करैः ॥ ५८ ॥

 प्रतिमेति ॥ हे खग, असौ निशापतिश्चन्द्रः प्रतिमासं मासेमासे यद्विXनाधिपं सूर्यं सगच्छति प्रविशति स चन्द्रः ततः सूर्यसङ्गात्तीव्रतरैरतितीक्ष्णैर्धैर्यतस्करैर्धैर्यचोरैः करैः किरणैः मम दाहाय किमु । जात इति शेषः । उपलक्षित इति वा । विधोर्विरहिणां संतापकारित्वं स्वत एव रवेस्तैक्ष्ण्यमादायोत्प्रेक्षितम् । अन्योऽपि स्वतोऽपकारेऽसमर्थो


 १ 'अत्रातिशयोक्तिरूपकार्थान्तरन्यासालंकाराणां संकरः' इति साहित्यविद्याधरी । 'अत्र तत्कथाया धाग्यात्मना प्रकृतमदनाग्नीन्धनोपयोगात् परिणामालंकारः । 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इत्यलंकारसर्वस्वकारः' इति जीवातुः। २ 'बत काल-'इति पाठे बत खेदे इति तिलकजीवातू। ३ 'अत्र काव्यलिङ्गरूपकालंकारः । अत्र पदार्थे वाक्यार्थप्रतिपादनादोजो गुणः ।' इति साहित्यविद्याधरी । 'विरहानलैधसेति रूपकोत्थापितेयं दक्षिणपवनस्य मलयाहिमण्डलीफूत्कारत्वोत्प्रेक्षेति संकरः' इति जीवातुः ।