पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
नैषधीयचरिते

अन्यदङ्गं चम्पकतुल्यमिति भावः । मालया यथा कामः प्रसन्नीक्रियते, तथा तयेत्यर्थः। (-पदाक्षिण) ’अस्थिदधि-' इत्यादौ 'अङ्गाधिकारे तस्य च तदुत्तरपदस्य च' इति तद्न्तविध्यनुज्ञानादनङादेशे ‘अल्लोपोनः' इत्यल्लोपः । आदित 'आङो दोऽनास्यविहरणे' इति तङ् । 'स्थाध्वोरिच्च' इतीकारः, 'हस्वादशात्' इति सिचो लोपः [१]

जघनस्तनभारगौरवाद्वियदालम्ब्य विहर्तुमक्षमाः।
ध्रुवमप्सरसोऽवतीर्य यां शतमध्यासत तत्सखीजनः ॥ ९७ ॥

जघनेति ॥ शतमसंख्याता अप्सरसो जघनस्तनभारगौरवान्नितम्बकुचयोः(स्य) भारेण स्थूलत्वेन गौरवाद्गुरुत्वाद्वियदाकाशमवलम्ब्य यतो विहर्तुं क्रीडितुमक्षमा असमर्थाः ध्रुवं निश्चितम् । अतो (अवतीर्य) भुवमागत्य तत्सखीजनो भैमीसखीजनो भूत्वा यां नगरीमध्यासताध्यतिष्ठत् । यत्सख्योऽप्सरस्तुल्या इति भावः । अभ्यर्हित- त्वाज्जघनस्य पूर्वनिपातः । याम् 'अधिशीङ्-' इति कर्मत्वम्[२]


स्थितिशालिसमस्तवर्णतां न कथं चित्रमयी बिभर्तु या।
स्वरभेदमुपैतु या ककलितानल्पमुखारवा न वा ॥ ९८ ॥

 स्थितीति ॥ या नगरी स्थित्या स्वीयस्वीयाचारानतिक्रमणेन शालिनः शोभमानाः समस्ता वर्णा यस्यां तस्या भावस्तत्ता तां कथं केन प्रकारेण न बिभर्तु, अपि तु विभर्त्यैव । अत एव चित्रमयी आश्चर्यरूपा । अन्यत्र ब्राह्मणादिवर्णानां संकरादत्र च तद्भावादाश्चर्यरूपत्वम् । ब्राह्मणादयोऽत्रासंकीर्णास्तिष्ठन्तीत्यर्थः । अथ च या चित्रमयी लेख्यप्रचुरा सा स्थित्या परस्परानतिक्रमेण शालिनः सर्वे नीलपीतादिवर्णा यस्यां तद्भावं कथं न बिभर्तु, अपितु विभर्त्येव । वा समुच्चये। यस्मात् या कलिताङ्गीकृता अनल्पानां बहूनां नरादीनां मुखारवा मुखशब्दा यया एवंभूता, तस्मात्स्वरभेदमनेकशब्दत्वं नरकरितुरगादिशब्दानां भेदं कोलाहलवशादर्घरशब्दं वा कथं नोपैतु। यद्वा-स्थितयो वर्णानामष्टौ स्थानानि ताभिः शालिनः समस्ता वर्णा अक्षराणि यस्याम् । ब्राह्मणाः सलक्षणं वेदं यत्र पठन्तीत्यर्थः। 'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च।' इति शिक्षायाम् । अथच-स्वः स्वर्गादभेदं साम्यं कथं न प्राप्नोतु । स्वर्गेऽनल्पमुखस्य चतुर्मुखस्य ब्रह्मण आरवः शब्दो विद्यते तस्मात्स्वर्गेण सहैकत्वं युज्यते । या बहुमुखारवा सा स्वरभेदं कथमुपैतु, अपि तु न । लोकबाहुल्यात्स्त्रीपुंसादिस्वरभेदो नोपलभ्यत इत्यर्थः । 'वर्णो द्विजादौ शुक्लादौ स्तुती वर्णं तु वाक्षरे', 'आलेख्याश्चर्ययोश्चित्रम्' इत्यमरः[३]


१ 'अत्र निदर्शनारूपकालंकारौं' इति साहित्यविद्याधरी । 'अत्र अन्यश्रियोऽन्यस्यासंभवात् श्रियमिव श्रियमिति सादृश्याक्षेपानिदर्शनाभेदः । तथा तदङ्गानां पङ्कजाद्यभेदोक्तरतिशयोक्तिः । तदुत्थापिता चेयं निदर्शनेति संकरः' इति जीवातुः। २ 'अत्र सापह्नवोत्प्रेक्षालंकारः । ध्रुवमित्युत्प्रेक्षाव्अञ्चकः' इति साहित्यविद्याधरी । ३ 'अत्र श्लेषालंकारः' इति साहित्यविद्याधरी । 'अत्र केवलप्रकृतश्लेषालंकारः । उभयोरप्यर्थयोः प्रकृतत्वात् । किंत्वेकनाले फलद्वयवद् एकस्मिन्नेव शब्देऽर्थद्वयप्रतीतेरर्थश्लेषः प्रथमार्धे ।

द्वितीये तु जतुकाष्ठवदेकवद्भूताच्छब्दद्वयादर्थप्रतीतेः शब्दश्लेषः' इति जीवातुः


  1. लघुः पाठ्यांशः
  2. लघुः पाठ्यांशः
  3. लघुः पाठ्यांशः