पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६

़ उच्चाटनीयः करतालिकानां दानादिदानीं भवतीभिरेषः । यान्वेति मां द्रुह्यति मह्यमेव सात्रेत्युपालम्भि तयालिवर्गः ॥७॥ उच्चेति ॥ तया भैम्या आलिवर्गः सखीजन इत्यनेन प्रकारेणोपालम्भि उपालब्धः । इतीति किम्-इदानीं मय्येतं धारयन्त्यां सत्यां भवतीभिरेष हंसः करतालिकानां ह- स्ततालानां दानाद्वादनादुच्चाटनीय उड्डयनीयः। प्रश्नकाकुः । एतस्य ग्रहणे मया यत्नः क्रियते, भवतीभिरुच्चाटनं क्रियते, एतन्न युक्तमित्यर्थः । अत्र आसु भवतीषु मध्ये या मामन्वेति अनुगमिष्यति सा मह्यमेव द्रुह्यत्येव । एवशब्दस्यावृत्तिः। मम द्रोहमेव करि- व्यतीति । अन्वेति, द्रुह्यतीति 'वर्तमानसामीप्ये-' इति भविष्यति लट् । अन्वादेशेऽपि 'न चवाहा-' इति एव शब्देन साक्षाद्योगे निषेधान्मह्यमित्यत्र न भयादेशः । मह्यम्- 'क्रुधद्रुह-' इति चतुर्थी ॥ धृताल्पकोपा हसिते सखीनां छायेव भास्वन्तमभिप्रयातुः । श्यामाथ हंसस्य करानवाप्तेर्मन्दाक्षलक्ष्या लगति स्म पश्चात् ॥८॥ धृतेति ॥ श्यामा यौवनमध्यस्था हंसस्य पश्चाल्लगति स्म चचाल । किंभूता-सखीनां हसिते हास्यविषये बह्वपराधाभावाद्धृतः कृतोऽल्पः कोपो यया । तथा-हंसस्य क- रेण हस्तेनानवाप्तेरप्राप्तेर्हेतोः मन्दाक्षेण लक्ष्या दृश्या । सलजेत्यर्थः। कस्य केव-भा- स्वन्तं सूर्यमभिप्रयातुः सूर्यसंमुखं गच्छतः पुरुषस्य छाया यथा तस्यैव पश्चालगति । छायापि हि हंसस्य सूर्यस्य किरणाप्राप्तेः श्यामा भवति । हंसस्य ( इत्यत्र ) पश्चादित्य- नेन योगे 'षष्ठ्यतसर्थप्रत्ययेन' इति षष्ठी । 'पश्चात्' इति निपातः । 'मन्दाक्षं ह्रीस्त्रपा' इत्यमरः[१] ॥ शस्ता न हंसाभिमुखी पुनस्ते यात्रेति ताभिश्छलहस्यमाना। साह स्म नैवाशकुनी भवेन्मे भाविप्रियावेदक एष हंसः ॥ ९ ॥ शस्तेति ॥ ताभिः सखीभिः इति पूर्वोक्तेन प्रकारेण छलेन शब्दच्छलेन हस्यमाना सोपहासमुच्यमाना सा भैमी इति वक्ष्यमाणं सखीः प्रति आह स वदति स्म । इतीति किम्-हे भैमि, हंसाभिमुखी राजहंससंमुखी, अथ च सूर्यसंमुखी यात्रा ते पुनः राज- पुत्र्या न शस्ता न प्रशस्ता । अशकुनत्वाच्छास्त्रनिषिद्धत्वादिति सखीवचनम् । हे सख्यः, एष हंसो मे मम नैव अशकुनी भवेदपशकुनरूपो नैव भवेदिति प्रार्थनायां लिङ् । यतोऽयं भावि भविष्यत्प्रियं तस्यावेदकः सूचकः । राजहंसाभिमुखी यात्रा शकुनरूपैव । हंसदर्शनस्य श्रवणस्य च वसन्तराजेन सर्वसिद्धिकरत्वोक्तेरिति भावः। अत एव भविष्यन्ननुरागवान्वा प्रियो नलस्तस्यावेदक इति वा । लोकोत्तरसुवर्णशकुनदर्श- नाल्लोकोत्तरनलशुभप्राप्तिरनुमीयते । नैवाशकुनिः पक्ष्येवेति वा । 'प्रत्यादित्यं प्रति- बुधम्-' इति यात्रानिषेधात् । न चायं सूर्यादिः, किं तु पक्ष्येव । अशकुनशब्दादशुभसू-



 १ 'अत्रोपमाभावशबलतालंकारः' इति साहित्यविद्याधरी

  1. लघुः पाठ्यांशः