पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः। १३३ तिरिक्ताय जुहोति ददाति तर्हि कृशानावेवाग्नावेव किं न जुहोति वह्नावेव किमिति मां न क्षिपति । वद इति किमः प्रश्नार्थत्वेन नो निषेधार्थत्वेन च व्याख्येयम् । अङ्गीकृत्याप्याह-यद्यप्यन्यस्मै दास्यति तथापि मम प्राणानां नाथस्तु नल एव । तुरेवार्थः । यतो नूनं निश्चितं स पिता तनूजन्म अपत्यं तस्य तनुः शरीरं तस्यैव ईष्टे स्वामी तद्धीनस्य शरीरस्य यत्किंंचित्करोतु, प्राणास्तु नलाधीना एव । पितृकर्तृकान्यदाने नलोद्देशेनाग्नौ जन्मान्तरेऽपि तत्प्राप्त्यर्थ प्राणांस्त्यक्ष्यामि । 'यं यं भावं स्मरन्वापि' इति भगवद्वचनात् । तनूजन्मतनोरिति 'अधीगर्थ-' इति षष्ठी ॥ 'इतः पृथक्प्रार्थयसे' इत्युक्तं दूषयति- तदेकदासीत्वपदादुदग्रे मदीप्सिते साधु विधित्सुता ते । अहेलिना किं नलिनी विधत्ते सुधाकरेणापि सुधाकरेण ॥ ७० ॥ तदिति ॥ तस्य नलस्यैकं केवलं दासीत्वं तल्लक्षणं पदं वस्तु तस्मात्सकाशादुदग्रे उत्कृष्टे मदीप्सिते ममाभिलाषे यत्ते विधित्सुता कर्तुकामत्वं तत्साधु उचितम् , काक्वा न साध्विति वा । नलदासीत्वादन्यन्न प्रार्थय इति भावः । नलस्य दासीत्वं सम्यक् । अन्यस्य महिषीत्वं नेत्याह, नलिनी कमलिनी सुधाया अमृतस्याकरण आलयेनाप्यहेलिना हलिः सूर्यस्तस्मादन्येन सूर्यव्यतिरिक्तेन सुधाकरेण चन्द्रेण किं विधत्ते कुरुते, अपि तु न किमपि । सूर्येऽनुरागबाहुल्याच्चन्द्रे तावादमृतपूर्णोऽपि तस्यै न रोचते तथा ममेत्यर्थः । सुधाकरपदं प्रथमं यौगिकं द्वितीयमयौगिकमिति न पुनरुक्तिः। तदेकदासीत्वपदावस्तुनः सकाशादधिके मदीप्सिते विधित्सुतास्ति । इति यत्तत्साध्वप्यनुचितम् । तादृशस्य मदीप्सितस्याभावादित्यर्थ इति वो ॥ एतदेव द्रढयति- तदेकलुब्धे हृदि मेऽस्ति लब्धं चिन्ता न चिन्तामणिमप्यनर्घ्यम् । चिते ममैकः सकलत्रिलोकीसारो निधिः पद्ममुखः स एव ॥१॥ तदिति ॥ तस्मिन्नेवैकं केवलं लुब्धमभिलाषुकमेवंभूते मे हृदि अनर्घ्यममूल्यं चिन्तामणिमपि तदाख्यरत्नविशेषमपि लब्धं प्राप्तुं चिन्ता मनोरथो नास्ति । किं पुनर्फलान्तरमित्यपेरर्थः । यतः-मम चित्ते सकलत्रिलोक्यां सारः श्रेष्ठभूतश्चतुःषष्टिकलासहितः त्रैलोक्यश्रेष्ठश्च इति वा । पद्मवद्रमणीयाननः स एव नल एवैको निधिः। स एवैको- ऽन्तःकरणे मया ध्रियते न चिन्तामणिः। अथ च पद्मो निधिर्मुखमादिर्यस्यैवंभूतो निधिः स एव नवनिधिरूपः। किं चिन्तामणिनेति भावः । निधीयत इति निधिः कर्मणि 'उप- सर्गे घोः किः ॥ ममाभिलाषः कर्तव्यश्चेन्मदुक्तमवश्यमेव कर्तव्यमिति स्वानुरागपूर्वकं श्लोकद्वशकेन हंसं प्रवर्तयति- १ 'अत्र काव्यलिङ्गम्' इति साहित्यविद्याधरी । २ 'अत्र दृष्टान्तमलंकारः' इति साहित्यविद्याधरी। ३ 'अत्र रूपकश्लेषौ' इति साहित्यविद्याधरी।