पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

नैषधीयचरिते तद्भया पक्षाभ्यां गतो यो वेगस्तस्माद्दयितदूतस्य पततोः पक्षयोर्गते गमने यो वेगस्त- स्माद्वा, पक्षाभ्यां गतं(गमनं) यस्य स पक्षी दयितदूतश्चासौ पतद्गतश्चेति वा तस्य वेगस्तस्मात्सकाशात्स्थितिः स्त्रीमर्यादा तस्या विरोधकरीं विरोधिनीमधैर्यतां धैर्याभावं शैध्यं चाधीवतती पठितवती स्वीचकार । ध्रुवमुत्प्रेक्षे । अध्ययने न्यायं प्रमाणयति- हि यस्माद्यो यस्मादनन्तर एवाव्यवहितः स तदुदितस्तस्मादेवोत्पद्यते । 'यदनन्त- रमेव यदृश्यते तत्तस्य कारणम्' इति गौतमः । तस्मिन्हंसे गतमात्रे एतस्या अधीरता जातेति तस्मादेवाधीता, इति सहोत्प्रेक्षा । वेगतः, 'आख्यातोपयोगे' इत्यपादानत्वम् । विरोधकरीम् , हेतौ टः1॥ अतितमां समपादि जडाशयं स्मितलवस्मरणेऽपि तदाननम् । अजनि पङ्गुरपाङ्गनिजाङ्गणभ्रमिकणेऽपि तदीक्षणखञ्जनः॥४॥ अतीति ॥ तदाननं भैमीमुखं स्मितलवस्य हास्यलेशस्य स्मरणविषयेऽप्यतितरां ज- डाशयं जडाभिप्रायं समपादि जातम् । विरहपीडया स्मितलेशमपि नास्मार्षीत् । स्मितं नाकरोदित्यत्र किं वाच्यम् । तदीक्षणखञ्जनः तस्या नयनरूपः खञ्जरीटोऽपाङ्गे नेत्रप्रा. न्तलक्षणे निजाङ्गणे भ्रमिकणेऽपि विलासगमनलेशेऽपि पङ्गुः खोऽजनि जातः । अ- न्योऽपि निजाङ्गणे सुखेन भ्रमति, तथा पक्ष्यङ्गणे भ्रमति, अयं तु तत्राप्यसमर्थोऽभूत् । खञ्जयतीति अन्यान्विलोकनमात्रेण पङ्गून्करोति स स्वीयगमनेऽपि पङ्गुर्जात इत्या- श्चर्यम् । विरहपीडया कटाक्षावलोकनमपि विसस्मार । अतितमाम् । स्वार्थे तमप् । समपादि, कर्तरि 'चिण्ते पदः' इति चिण् । अङ्गनं, 2णत्वमपपाठः । 'अजिरं त्वङ्गनं त- त्स्यात्कामिन्यामङ्गना मता' इति विश्वप्रकाशः3॥ किमु तदन्तरुभौ भिषजौ दिवः स्मरनलौ विशतः स्म विगाहितुम्। तदभिकेन चिकित्सिनुमाशु तां मखभुजामधिपेन नियोजितौ ॥ ५॥ किम्विति ॥ स्मरनलौ तदन्तः तस्या अन्तर्हृदयं विगाहितुमालोडितुं विशतः स्म प्र- विष्टौ । उत्प्रेक्षते-तद्भिकेन तस्या भैम्याः कामुकेन मखभुजां देवानामधिपेनेन्द्रेण आशु शीघ्रं तां भैमी चिकित्सितुं नीरोगां कर्तुं शरीरस्थितिं विचारयितुंच नियोजिता- वाज्ञप्तौ दिवो भिषजौ स्वर्वैद्यौ आश्विनेयौ किमु । नलो नलविषयो मदनश्च भैम्यन्तः- करणमधितिष्ठतः स्मेति भावः। 'अनुकाभिका-' इत्यभिकशब्दः साधुः। नियोजितौ । चौरादिकाधुजेः क्तः॥4 १ 'अत्रोत्प्रेक्षा हेतुश्चालंकारः' इति तिलकसाहित्यविद्याधर्यो । 'उत्प्रेक्षार्थान्तरन्यासयोरङ्गाङ्गीभा- वेन संकरः' इति जीवातुः । २ 'अङ्गणे' इति पाठद्वयेऽपि न दोषः । हेमाचार्यैस्तथोक्तत्वात्' इति सुखा- वबोधा। ३ 'अत्र विशेषोक्तिः, रूपकं च' इति साहित्यविद्याधरी । 'अत्रातिशयोक्तिरूपकालंकारः' इति तिलकः। ४ 'अत्रोत्प्रेक्षालंकारः' इति तिलकसाहित्यविद्याधर्यो । 'तेनास्य मदनाश्विनसमा- नसौन्दर्य व्यज्यते । अत्र चिन्ताख्यः संचारी भावः सूचितः । 'ध्यानं चिन्तेप्सितानाप्तिः शून्यता-' इति लक्षणात्' इति जीवातुः।