विरहतप्ततदङ्गनिवेशिता कमलिनी निमिषद्दलमुष्टिभिः । |
विरहेति ॥ विरहेण तप्ते तदङ्गे भैम्यङ्गे निवेशिता निक्षिप्ता कमलिनी निमिषन्ति संकुचन्ति दलानि पर्णान्येव मुष्टयस्तैः कृत्वा पृथं महान्तं तद्दवथुं भैमीसंतापमपनेतुं दूरीकर्तुमचेष्टत किं उद्योगं चक्रे, वा पराभवितुं मोहयितुमैहत ऐच्छत किम् । अन्यदपि दुःखदं मुष्टिभिरपनीयते । संतापवशात्कमलिनी संकुचितेति भावः[१] ॥
विवशतामाह-
इयमनङ्गशरावलिपन्नगक्षतविसारिवियोगविषावशा । |
इयमिति ॥ इयं भैमी खरांशोः सूर्यस्य करैरर्दिता पीडिता शशिकलेव करुणसमुद्रे कं न निदधौ चिक्षेप, अपि तु सर्वमपि । किंभूता-अनङ्गशरावलिलक्षणाः पन्नगास्तैः क्षतं दंशनं तेन विसारि प्रसरणशीलं वियोग एव संतापकारित्वाद्विषम्, तेन अवशा विह्वला । एवंविधां दृष्ट्वा सर्वेऽपि शुशुचुः । अन्योऽपि सर्पदष्टो विषविह्वलः संल्लोकं करुणायां क्षिपति । अथ च सर्पदष्ट एव विषनिरासार्थं जलाशये क्षिप्यते, तया त्वन्य एव निक्षिप्त इत्याश्चर्यम् । कलाशब्देन भैम्या अतितनुत्वं सूचितम् । पन्नगक्षता चासौ विसारिवियोगविषावशा चेति वा[२] ॥
ज्वलति मन्मथवेदनया निजे हृदि तयार्द्रमृणाललतार्पिता । |
ज्वलतीति ॥ तया मन्मथवेदनया मदनजनितपीडया ज्वलति संतप्ते निजे हृदि अर्पिता निहिता आर्द्रमृणाललता सरसा मृणालवल्ली स्वजयिनोः कान्त्या मृणालजैत्रयोः सविधस्थयोः हृदयसमीपस्थितयोर्भुजयोः सकाशात्रपया लज्जया भृशमतितमां मलिनतामभजत् । संतापशान्त्यर्थं सरसा मृणाललता हृदये स्थापिता तदङ्गसङ्गवशान्म्लाना जाता । मृणालजैत्रहृदयस्थितमृणालसमीपस्थयोर्मैमीभुजयोर्लज्जया श्यामत्वं जनितमिति प्रतीयमानोत्प्रेक्षा । अन्योऽपि स्वजयिना सहैकत्र स्थितौ सत्यां तन्मुखं पश्यन्मलिनो भवति । भुजयोः सविधस्थयोरिति सतिसप्तमी वा । अर्थात्ताभ्यामेव त्र[३]पा॥
पिकरुतिश्रुतिकम्पिनि शैवलं हृदि तया निहितं विचलद्बभौ। |
- ↑ 'अत्रोत्प्रेक्षा' इति साहित्यविद्याधरी । 'अचेष्टत किम्' इत्युत्प्रेक्षा । वस्तुतस्तु न किंचित्कर्ते शशाक, प्रत्युत स्वयमेव दग्धेत्यर्थः । अत एवानर्थोत्पत्तिलक्षणो विषमालंकारः । तदुत्थापिता चेयमुत्प्रेक्षेति संकरः' इति जीवातुः।
- ↑ 'अत्र रूपकोपमालंकारः' इति साहित्यविद्याधरी ।
- ↑ 'अत्र प्रतीयमानोत्प्रेक्षा' इति साहित्यविद्याधरी।