पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः। १८१


प्रभवति न त्वन्यत्र । एवं चेन्न, तर्हि निरागसि निरपराधायां मयि का कीदृक् विप्रता ब्राह्मण्यं वा । निरपराधां मां दहतीति ब्राह्मणो न, अत एव त्वयावश्यं हन्तव्य इत्यर्थः । दाहिकेति कर्तरि ण्वुल्१ ॥ अर्थान्तरेण तस्य द्विजराजश्रुतिं समर्थयते- सकलया कलया किल दंष्ट्रया समवधाय यमाय विनिर्मितः । विरहिणीगणचर्वणसाधनं विधुरतो द्विजराज इति श्रुतिः ॥७२॥ सकलयेति ॥ ब्रह्मणा (इति विविधाभिः) विधुः सकलया कलया दंष्ट्रया । जातावे- कत्वम् । सर्वाभिः कलाभिरेव दंष्ट्राभिः कृत्वा सम्यगवधानं कृत्वा । संयोज्येत्यर्थः । य- माय यमार्थं किल यस्माद्विविरहिणीगणस्य चर्वणं भक्षणं तद्विषये साधनं कारणं (किं) निर्मितः, अतो द्विजानां दन्तानां मध्ये राजा श्रेष्ठत्वाद्द्विजराजोऽयम्-इति श्रुतिर्जन- वादः, नतु द्विजानां ब्राह्मणानां राजेति । एककालमेव सर्वासां वधाय महत्साधनमयं निर्मित इति भावः । द्विजराजः, 'राजाहः-' इति टच् ॥ स्मरमुखं हरनेत्रहुताशनाज्ज्वलदिदं चकृषे विधिना विधुः । बहुविधेन वियोगिवधैनसा शशमिषादथ कालिकयाङ्कितः॥७३॥ स्मरेति ॥ विधिना ब्रह्मणा विधुरेव इदं पुरोवति स्मरमुखं हरनेत्रहुताशनाद्धरने- त्राग्नेः सकाशाज्ज्वलद्दह्यमानं प्रकाशमानं चषे समाकृष्टम् । अथ च बहुविधेनानेक- प्रकारेण वियोगिनां विरहिस्त्रीपुंसानां वधो मारणं तज्जन्येनैनसा पातकेन कालिकया पातकरूपया श्यामिकया शशमिषान्मृगव्याजादङ्कितश्चिह्नितः। नायं मृगः, किंतु पात- कलक्षणश्यामिका । अन्योऽप्यपराधी केनापि चिह्नेन चिह्नयते, स्वत एव च तन्मुखे मालिन्यं भवति । 'आगसा' इति पाठे 'पापापराधयोरागः' इत्यमरः॥ [अत्र तिलकसुखावबोधाव्याख्ययोरधिकः श्लोको दृश्यतेऽतः सोऽपि तिलकव्या- ख्यायुतः संगृह्यते-- द्विजपतिग्रसनाहितपातकप्रभवकुष्ठसितीकृतविग्रहः । विरहिणीवदनेन्दुजिघत्सया स्फुरति राहुरयं न निशाकरः॥१॥ द्विजपतीति ॥ भो सखि, विरहिणीनां वियोगिनीनां वदनेन्दुजिघत्सया मुखचन्द्रभ- क्षणेच्छया राहुरेव स्फुरति, न निशाकरः । कीदृशः-द्विजपतिश्चन्द्रो विप्रश्रेष्ठश्च तद्- सनात्तद्ग्रहणादाहितं यत्पातकं तस्मात्प्रभवमुत्पन्नं यत्कुष्टं तेन सितीकृतो धवलीकृतो विग्रहः शरीरं यस्य स तथा ॥ क्षेपकोऽयमिति तिलके विशेषः ॥ सुखावबोधायां क्षेप- कत्वं नोक्तम्, 'अनेन ब्रह्महत्याविर्भूतं फलमनुभवतोऽपि पुनः स्त्रीहत्याकरणोद्यतस्यास्य नास्ति त्रपेत्यभिप्रायः' इति चोक्तम् ॥]१ 'अत्रातिशयोक्तिरुपमा च' इति साहित्यविद्याधरी। २ 'अत्रापह्नवोत्प्रेक्षा' इति साहित्यवि- द्याधरी। ३ 'अत्र रूपकमपह्नुतिश्च' इति साहित्यविद्याधरी । 'पापकालिमा दाहकालिमा वा शश- मिषादृश्यते इति सापह्नवोत्प्रेक्षाद्वयम्' इति जीवातुः ।