पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः। हितगिरं न शृणोषि किमाथवे प्रसभमप्यवजीवितमात्मनः । सखि हिता यदि मे भवसीहशी मदरिमिच्छसि या मम जीवितम्॥ हितेति ॥ 'हे आश्रवे सर्वदास्मद्वचनकारिणि, हितानां मादृशीनां हितां (वा) गिरं वाचं किं न शृणोषि, अपितु आकर्णय। यद्यप्यतिपीडा भवति तथापि 'आत्मानं सर्वदा गोपायेत्' इति श्रुतेः। प्रसभं बलात्कारेणापि धैर्यमवलम्ब्य आत्मनो जीवितमव-' इत्यन्य- सखीवचः । (उत्तरम्) हे सखि, या त्वं मदरिं मच्छत्रुभूतं मम जीवितमिच्छसि, ईदृशी यदि तर्हि हिता मे भवसि, काका हिता न भवस्येव । सखीत्वादेतादृशं वक्तुम- नुचितमिति भावः । मे, चतुर्थी हितशब्दयोगे इति वा ॥ अमृतदीधितिरेष विदर्भजे भजसि तापममुष्य किमंशुभिः । यदि भवन्ति मृताः सखि चन्द्रिकाः शशभृतः क्व तदा परितप्यते ॥ अमृतेति ॥ हे विदर्भजे, एष पुरोवर्ती अमृतदीधितिः, न तु तीक्ष्णंदीधितिः । त्वं अमुष्यांशुभिः सुधामयैः किरणैस्तापं दाहं किं भजसि-इति सखीवचः । छलेनोत्तर- माह-हे सखि, शशभृतः कलङ्किनः चन्द्रिका यदि मृता भवन्ति कृष्णपक्षवत्तदा क कुतो हेतोः परितप्यते संतप्येत, कारणान्तराभावात्संतापो न भवेदिति भैमीवचः ॥ ब्रज धृतिं त्यज भीतिमहेतुकामयमचण्डमरीचिरुदञ्चति । ज्वलयति स्फुटमातपमुर्मुरैरनुभवं वचसा सखि लुम्पसि ॥१०॥ बजेति ॥ हे भैमि, धृतिं ब्रजाङ्गीकुरु । सूर्यबुद्ध्या निन्दामहेतुकामकारणिकां भीतिं त्यज । अयमचण्डमरीचिश्चन्द्र उञ्चत्युदेति-इति सखीवचः। उत्तरम्-हे सखि, अयं आतपमुर्मुरैरुष्णरूपकरीषा(तुषा)ग्निकणैः स्फुटं मां ज्वलति, त्वं वचसानुभवं लु- म्पसि । वचनादनुभवो बलीयानित्यर्थः । 'मुर्मुरस्तुषवह्नौ स्यात्' इति विश्वः1 ॥ अयि शपे हृदयाय तवैव तद्यदि विधोर्न रुचेरसि गोचरः। रुचिफलं सखि दृश्यत एव तज्ज्वलयति वचमुल्लयत्यसून १०६ अयीति ॥ अयि भैमि, यदि त्वं विधोश्चन्द्रस्य रुचेर्यदि गोचरो विषयो नासि, त- त्तर्हि तवैव हृदयाय शपे त्वद्धृदयं स्पृशामि, चन्द्र एवायं न तु सूर्य इति शपथः क्रि- यते । 'अपि' इति पाठे सत्यप्यर्थे तव विश्वासार्थं शपेऽपि । शपथमपि करोमीत्यर्थः । छलेनोत्तरमाह-हे सखि, रुचेः फलं दृश्यत एव यत्त्वचं ज्वलयति असूनुल्ललयत्युन्मू- लयति।त्वया सत्यमुक्तम् । रुचिफलं शरीरज्वलनं प्राणोन्मूलनं च । उष्णस्पर्शत्वं तेजसः स्वभाव इति भावः। शपे 'शप उपालम्भे' इति वक्तव्यात्तङ् । तद्योगे 'श्लाघह्रङ्-' इति (संप्रदानत्वात्) चतुर्थी॥ १ 'अत्राचण्डकरे चण्डकरभ्रान्त्या भ्रान्तिमदलंकारः' इति जीवातुः।