पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
नैषधीयचरिते

नैषधीयचरिते अथ च कामबाणायते तत्तस्मादस्या भैम्याः तदुचितं वसन्तसमयोचितमुपचारमाच- रत कुरुतेति । तुहिनऋतौ, 'ऋत्यका' इति प्रकृतिभावः। शरायते 'कर्तुः क्यङ्-' इति क्यङ्1॥ कतिपयदिवसैवयस्यया वः स्वयमभिलष्य वरिष्यते वरीयान् । क्रशिमशमनयानया तदाप्तुं रुचिरुचिताथ भवद्विधाविधाभिः १२१ कतीति ॥ हे भैमीसख्यः, वो युष्माकं वयस्यया भैम्या अभिलष्य वरीयानतित- रां श्रेष्ठः वरः कतिपयदिवसैः द्वित्रैरेव दिनैः द्वित्रेषु मध्ये इति यावत्स्वयं वरिष्यते, त. त्तस्माद्नया भैम्या क्रशिमानं कार्य शमं शान्ति नयति प्रापयतीति क्रशिमशमनया अथ रुचिः समग्रा शोभा विरहात्पूर्वकालीना भवद्विधानां भवादृशीनां सखीनां वि- धाभिः प्रकारैरुपचारैराप्तुमुचिता योग्या । 'अभिधाभिः' इति पाठे वचनैः इयं यथापूर्व- रुचिं प्राप्नोति तादृशमुपचरत । यद्वा-तादृगेनां शिक्षयतेत्यर्थः । 'क्रशिम्नः शम- नया' इति भैमीविशेषणं वा । 'अथ संप्रश्ने मङ्गलारम्भयोरपि । अनन्तरे च कार्त्स्न्ये च' इति विश्ववचनादथशब्दः कार्स्त्य॑वाची । अथ वा अन्यच्चेत्यर्थ इति वा । अयमे तेभ्योऽतिमनोहरः श्रेष्ठो वरीयान् 'द्विवचन-' इत्यादिनेयसुनि 'प्रियस्थिर-' इत्या. दिना वरादेशः । अयमेतेभ्यो वर इति वरशब्दाद्वा ईयसुन् । क्रशिमशमनया पक्षे नयतेः पचायच् । ततः पूर्वेण षष्ठीसमासः, ततोऽपि पूर्वेण स एव । पक्षे नन्द्यादित्वादनः ॥ एवं यह्वदता नृपेण तनया नापृच्छि लज्जास्पदं यन्मोहः स्मरभूरकल्पि वपुषः पाण्डुवतापादिभिः । यच्चाशी कपटादवादि सदृशी स्यात्तत्र या सान्त्वना तन्मावालिजनो मनोब्धिमतनोदानन्दमन्दाक्षयोः ॥ १२२॥ एवमिति ॥ एवं पूर्वोक्तं वदता नृपेण भीमेन तनया लज्जास्पदं यस्मिन्पृष्टे सति लज्जा भवति तद्विरहकारणं नापृच्छि न पृष्टा । लज्जापदं न पृष्टेति वा । यच्च पाण्डुत्वतापा- दिभिः शरीरपाण्डिमक्रशिमसंपादिभिः स्मराद्भवतीति स्मरभूः स्मरजन्यो मोहो मूर्छा अकल्पि।यच्चाशीःकपटानाशीर्वचनव्याजानवादि आश्वासनसमर्थम् दायितमभिमतम्-' इत्यादि यदुक्तं तत्र संतापादिविषये सदृशी समुचिता या सान्त्वना उपचारः स्यात्स चावादि । आलिजनः सखीसमूहः तत्सर्वं मत्त्वा ज्ञात्वा मनोऽन्तःकरणं आनन्दश्च मन्दाक्षं च लज्जा तयोरब्धिमतनोच्चकार । शीघ्रं भैम्याः स्वयंवरप्राप्तेरानन्दातिशयः, राज्ञा विरहपीडा ज्ञातेति लज्जाधिक्यं चाभूदित्यर्थः3 ॥ श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । १ 'अत्रोपमालंकारः' इति साहित्यविद्याधरी । २ अत्र छेकानुप्रासोऽलंकारः' इति साहित्यविद्या-

धरी । ३ 'अत्र रूपकसमुच्चयभावशबलतालंकारसंकरः शार्दूलविक्रीडितम्' इति साहित्यविद्याधरी।