पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१५
पञ्चमः सर्गः

नार्थ गच्छ । 'गतानुगतिको लोकः' इति न्यायात् । येषामवलोकनेऽपि त्वं जुगुप्सां करोषि तद्वरणार्थ विबुधेन्द्रः सन् गच्छतीति युक्तमित्युपहासः । इन्द्रादपि त्वमेव सचेता इत्य[१]र्थः॥

  अन्वयुर्युतिपयःपितृनायास्तं मुदाथ हरितां कमितारः ।

  वम कर्षतु पुरः परमेकस्तगतानुगतिको न महार्घः ॥ ५५॥

 अन्वयुरिति ॥ अथ द्युतिपयःपितृनाथा वह्निवरुणयमा दिशां कमितारः कामुका दिक्पालाः तमिन्द्रं मुदा भैमीदर्शनादिनिमित्तहर्षेणान्वयुरनुजग्मुः । तस्मिन्निर्गते किमिति निर्गता इत्यत आह-परं केवलमेकः पुरःप्रथमतो वर्त्म कर्षतु करोतु प्रवर्तयतु । पुरोमार्गकतैव दुर्लभ इत्यर्थः । तस्य पुरो गच्छतो गतं गमनमनु लक्षीकृत्य गतिर्यस्य एवंविधः पुरुषो महा| न दुर्लभो न । किं त्वेकस्मिन्पुरो निर्गतेऽन्योऽपि तदनुयायी भवति । इन्द्रमनु सर्वेऽपि निर्गता इत्यर्थः । अनुगतिकः । 'शेषाद्विभाषा' इति कप् । कर्षतु, प्रार्थने लोट् । कमितारः, तृच[२]

  प्रेषिताः पृथगयो दमयन्त्यै चितचौर्यचनुरा निजदूत्यः ।

  तगुरुं प्रति च तैरुपहाराः संख्यसौख्यकपटेन निगूढाः ॥ ५६ ॥

 प्रेषिता इति ॥ अथो अनन्तरं तैरिन्द्रादिभिः चित्तचौर्य भैम्यन्तःकरणवशीकरणे चतुरा निगूढाः स्वापेक्षया दूत्यपेक्षया च परस्परस्माद्गोपिताः पृथक् प्रत्येकं निजदूत्यः स्वीयस्वीयदूत्यो दमयन्त्यै भैम्यर्थ प्रेषिताः । निगूढा विद्यया कुण्डिनवासिनामदृश्या इति वा । तद्गुरुं प्रति तत्पितरं प्रत्युद्दिश्य संख्यसौख्यकपटेन सङ्ग्रामजनितसंतोषव्याजेन पृथगुपहारा दिव्यरत्नाद्युपायनानि च प्रेषिताः । त्वया वैरिणो निहतास्तेन वयं प्रसन्नास्तुभ्यं दिव्यरत्नादि प्रेषितमङ्गीकरणीयमिति । प्रीतेन तेन स्वस्मै भैमी देयेति तात्पर्यम् । संख्यसौख्येति विशेषणं भैमीप्राप्तिं प्रत्युपाधिराहित्यद्योतनार्थम् । निगूढाः, उपहारविशेषणं च [३]

  चित्रमत्र विबुधैरपि यतैः स्वर्विहाय बत भूरनुसस्रे ।

  द्यौर्न काचिदथवास्ति निरूढा सैव सा चलति यत्र हि चित्तम् ॥ ५७॥

 चित्रमिति ॥ (तैः) विबुधैर्देवैः अथ च पण्डितैरपि स्वः स्वर्ग विहाय (यत्) भूरनुसत्रेऽनुसृता बत खेदे । अत्र चित्रम् । स्वर्गप्राप्त्यर्थमज्ञैरपि यत्नः क्रियते, एतैविबुधैरपि स्वर्ग एव त्यक्त इत्याश्चर्यम् । अर्थान्तरन्यासमाह-अथवा युक्तमेतत्-निरूढा प्रसिद्धा काचित् द्यौः स्वर्गों नास्ति, किंतु सैव सा सैव द्यौः यत्र चित्तमन्तःकरणं चलति चञ्चलम् । यत्रानुरागः स एव स्वर्गः, ततश्च भूमावनुरागात्तेषां भूमिरेव स्वर्ग इति तदनुसरणं युक्तमित्यर्थः । 'वलति' इति पाठे लगति रज्यतीति यावत् [४]


 

  1. 'वक्रोक्तिरनुप्रासश्च' इति साहित्यविद्याधरी
  2. 'अत्रार्थान्तरन्यासः' इति साहित्यविद्याधरी
  3. 'अत्र छेकानुप्रासोपह्नुतिश्च' इति साहित्यविद्याधरी
  4. 'अत्रोत्प्रेक्षा इति साहित्यविद्याधरी