पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१६
नैषधीयचरित

  शीघ्रलङ्घितपथैरपि वाहैर्लम्भिता भुवममी सुरसाराः।

  वक्रितोन्नमितकंधरबन्धाः शुश्रुवुर्द्धनितमध्वनि दूरम् ॥ ५८ ॥

 शीनेति ॥ अथ अमी सुरसारा देवश्रेष्ठा अध्वनि (मार्गे) दूरं दूरदेशोद्भवमतिशयितं वा ध्वनितं शब्दितं शुश्रुवुः । किंभूताः-शीनं लञ्चितः पन्था यैर्वाहैरश्वैः कर्तृभिर्भुवं लम्भिताः प्रापिताः। तथा-पूर्व वक्रीकृता पश्चादुन्नमिता ऊर्ध्वीकृता कंधरा ग्रीवा यस्मिन्नेवंविधो वन्धः शरीरावस्थाविशेषो येषाम् । अध्वनि ध्वनिरहितं यथा तथा कथान्तरं परित्यज्य शुश्रुवुरिति वा । वाहैविमानै [१]र्वा ॥

  किं घनस्य जलधेरथवैवं नैव संशयितुमप्यलभन्त ।

  स्यन्दनं परमदूरमपश्यन्त्रिःखनश्रुतिसहोपनतं ते ॥ ५९ ॥

 किमिति ॥ ते देवाः इदं घनस्य मेघस्य ध्वनितं, समुद्रस्य किमिति संशयितुं संदेहमपि कर्तु अर्थात्समयं नैवालभन्त किंपुनर्निश्चेतुम् । किंतु निःस्वनस्य श्रुतिराकर्णनं तया सह तस्याः समये उपनतं प्राप्तमदूरं निकटवर्तिनं स्यन्दनं रथं परं केवलमपश्यन्ददृशुः । शब्दाकर्णनसमये एव रथोपि वेगादागत इत्यर्थः । नलस्याश्वहृदयवेदित्वं सूचितम् । प्रथमे क्षणे धनध्वनितस्य स्मरणम् , द्वितीये जलधेः, ततः क्रमेण द्वयोः समानधर्मस्मरणलक्षणः पञ्चमक्षणे संशयः । प्रथमक्षण एव रथे समागते कथं संशयः, कथंतरां च विचारः कथंतमां च निर्णय इत्यर्थः । रथध्वनेर्गाम्भीर्यं सूचि[२]तम् ॥

  सूतविश्रमदकौतुकिभावं भावबोधचतुरं तुरगाणाम् ।

  तत्र नेत्रजनुषः फलमेते नैषधं बुबुधिरे विबुधेन्द्राः ॥ ६०॥

 सूतेति ॥ एते विबुधेन्द्रा नेत्रजनुषो नयनजन्मनः फलं नैषधं नलं तत्र रथे बुबुधिरे ज्ञातवन्तः। किंभूतम्-सूतस्य सारथेविश्रमं ददातीति विश्रमदः कौतुकिभावः कुतूहलित्वं यस्य । तथा-तुरगाणां भावबोधे हृदयाशयज्ञाने चतुरम् । अत एव एवंविधस्य सुन्दरान्तरस्याभावादेतस्यावलोकने नेत्रजन्मनः साफल्यमित्यर्थः । सूतश्रमापनोदेनास्माकमप्यभीष्टं कृत्वा श्रममपनेष्यतीति सूचितम् । यः पशूनां हृदयं जानाति सोऽस्माकं हृदयस्थमभिप्रायं कथं न ज्ञास्यतीति भावबोधपदेन सूचितम् । विशिष्टं श्रमं द्यति नुदतीति । एतैश्चितैनलोऽयमिति तै तमिति भावः[३]

  वीक्ष्य तस्य वरुणस्तरुणावं यद्बभार निबिडं जडभूयम् ।

  नौचिती जलपतेः किमु सास्य प्राज्यविस्मयरसस्तिमितस्य ॥६१॥

 वीक्ष्येति ॥ तस्मिन्समये वरुणः तस्य नलस्य तरुणत्वं वीक्ष्य यत् निबिडं जडभूयं जलत्वं बभार प्राप्तवान् । एनं दृष्ट्वा भैमी मां कथं वरीष्यतीति चिन्तयातिस्विन्नोभूदि-


 

  1. 'अत्र च्छेकानुप्रासोऽलंकारः' इति साहित्यविद्याधरी
  2. 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी ।
  3. 'अत्र छेकानुप्रासोतिशयोक्तिश्च' इति साहित्यविद्याधरी।