पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
पञ्चमः सर्गः।

 वित्थेति ॥ यूयं यद्यपि विश्वसाक्षित्वादखिलस्य सर्वस्य चित्तं वित्थ जानीथ मयै- तन्न क्रियत इति, तथापि धुर्याणां श्रेष्ठानां कार्यपरिपन्थि कार्यप्रतिकूलं भैमीप्राप्तिल- क्षणप्रधानकार्यविरोधि वा मौनं तु पुनः न कुर्याम् ज्ञातेऽपि ममाभिप्राये मौनं युक्तं न । तदेवाह - न करोमीति निष्ठुरवचनभाषणरूपा ह्रीर्लज्जा वरं मनागस्तु वरम् । मौनि- त्वादपरास्ताऽनिराकृता परस्य वाक् 'अप्रतिषिद्धमनुमतं भवति' इति न्यायात् स्वीकृतैव पुनर्मा भूत् । तस्माद्भवद्भिार्ज्ञातेऽपि मया स्पष्टः प्रतिषेधः क्रियत इति भावः। 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' इति च्छन्दस्येव निपातितः तथापि महाकविप्रयो- गाद्भाषायामपि साधुः । 'प्रत्यर्थिपरिपन्थिनः' इत्यमरः । 'अनुपस्थितपरिपन्थिभिः' इ त्युदयनाचार्यः । यद्वा परितः पन्थयति आवृणोति कार्यं तच्छीलः परिपन्थी इति णिनौ समर्थनीयम् । स्वरे विशेषान्निपातवैयर्थ्यं न शङक्यम् । 'वित्त' इति पाठे लोट्[१]

  यन्मतौ विमलदर्पणिकायां संमुखस्थमखिलं खलु तत्त्वम् ।

  तेऽपि किं वितरथेदृशमाज्ञां या न यस्य सदृशी वितरीतुम ॥ १०६ ॥

 यदिति ॥ येषां युष्माकं मतौ बुद्धावेव विमलायां निर्मलायां दर्पणिकायां खलु निश्चितमखिलं तत्त्वं यथार्थे करणीयाकरणीयं वस्तु संमुखस्थं प्रत्यक्षं स्फुरद्रूपम्, तेपि ईदृशा अपि यूयम् ईदृशमेवंविधां तामाज्ञां तस्मै मह्यं किं वितरथ दत्थ । तां काम्-याज्ञा यस्य यस्मै वितरीतुं दातुं सदृशी युक्ता न । यो भैम्याः कामुकोऽति- सुन्दरश्च तस्मै भैमीदूत्यं कुर्वित्याज्ञा नैव युक्तेति भावः[२]

  यामि यामिह वरीतुमहो तहततां नु करवाणि कथं वः ।

  ईदृशां नमहतां बत जातावञ्चने मम तृणस्य घृणापि॥१०७॥

 यामीति ॥ इह अस्मिन्समये मार्गे वा यां वरीतुमहं यामि । अहो सोपहासमाश्चर्ये संबोधने वा । वो युष्मत्संबन्धि तद्विषयां दूततां पुनः कथंकारं करवाणि, अपितु न कुर्याम् । ईदृशां दिक्पालानां महतामत्रभवतां तृणस्य तृणप्रायस्यातिहीनस्य नलस्य मम वञ्चने प्रतारणे विषये घृणा कृपा जुगुप्सा वा न जाता नोत्पन्ना। बत खेदे । महतां कृपया भवितव्यम् । महद्भिर्महानेव प्रतारयितुं युक्तो, न लघीयान् , तस्यायोग्यत्वादित्य- पिशब्दार्थः । कपटोक्तिश्च - महतामन्येषां सत्पुरुषाणां जातौ समाजे ईदृशां परप्रतार- काणां भवतामञ्चने पूजने विषये तृणस्याल्पस्य ममापि घृणा न, अपि त्वस्त्येव । किमुत महतामित्यर्थः । अथ च ईदृशां वञ्चकानां नमहताम् , नसमासेन असाधूनां तृणस्यापि जातौ पूजने तृणजातीयमध्येऽपि पूजने मम घृणा भवति भवद्भयोऽपि तृणजातिरेव श्रेयसी इति मम प्रतिभाति इति भावः[३]

  उभ्द्रमामि विरहात्खलु यस्या मोहमेमि च मुहूर्तमहं यः।

  ब्रूत वः प्रभवितास्मि रहस्यं रक्षितुं स कथमीदृगवस्थः ॥१०८॥


  1. 'अत्र काव्यलिङ्गम्' इति साहित्यविद्याधरी।
  2. 'अत्र रूपकम्' इति साहित्यविद्याधरी ।
  3. 'अत्र च्छेकानुप्रासविरोधरूपकसंकरः' इति साहित्यविद्याधरी।