पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३५
पञ्चमः सर्गः

षणीयं यया एवंविधा तव रसना जिह्वा वाम्याद्वक्रत्वादङ्गीकृतस्यापरिपालनाद्धेतोः न लज्जते लज्जां न प्राप्नोति, अपि तु अङ्गीकृतपरित्यागाल्लज्जा प्राप्तुमुचिता । अनयाङ्गीकृतं त्वया परिपालनीयमेवेत्यर्थः। अथ च इदं रोहिणी गौस्तस्या रमणो बलीवर्दः, तत्कुलो- त्पन्नेन बलीवर्देनेव त्वया नोक्तम् । यो ह्युक्तं न करोति स गोसदृशो मूर्खः पशुश्च, त्व- मपि तादृश इत्यर्थः । बलीवर्दोपि जिह्वया भक्षितस्य तृणादेर्वमनान्न लज्जते एवं तव जिह्वा वाम्यान्न लज्जते तस्मात्त्वमपि बलीवर्दोसीत्युपहासः । वामस्य भावो वाम्यं । ष्यञ् । पक्षे वमनं वमिर्वमिरेव वाम्यं, चातुर्वर्ण्यादित्वात्ष्यञ्[१]

 भङ्गुरं न वितथं न कथं वा जीवलोकमवलोकयसीमम् ।
 येन धर्मयशसी परिहातुं धीरहो चलति धीर तवापि ॥ ११ ॥

 भङ्गुरमिति ॥ हे धीर, त्वं इमं जीवलोकं प्राणिसङ्घं भङ्गुरं स्वयमेव नश्वरं कथं न अवलोकयसि बुध्यसे । वितथमलीकं वा कथं न बुध्यसे, अपि तु त्वया एवं ज्ञेयम् । अहं जानामीत्यत आह-येना(न)वबोधलक्षणेन कारणेन धार्मिकस्यातिधीरस्यापि तव धीर्वुद्धिः अभङ्गुरावितथे अपि धर्मयशसी पुण्यकीर्ती परिहातुं चलति तरला भ- वति । त्यक्तुमीहत इत्यर्थः । अहो इत्याश्चर्ये । नश्वरालीकप्राणिहेतोरनश्वरानलीके धर्मयशसी त्वया न हातव्ये इत्यर्थः [२]

 कः कुलेऽजनि जगन्मुकुटे वः प्रार्थकेप्सितमपूरि न येन ।
 इन्दुरादिरजनिष्ट कलङ्की कष्टमत्र स भवानपि मा भूत् ॥११९ ॥

 क इति ॥ येन प्रार्थकेप्सितं याचकाभिलषितं नापूरि पूरितमेतादृक् कः पुरुषो जगन्मुकुटे लोकालंकरणभूते वः कुलेऽजनि प्रसूतः, अपि तु न कोऽपि । अत्र कुले आ- दिर्वेशादि इन्दुः कलङ्की अजनिष्ट जातः । कष्टं स प्रसिद्धो भवानपि कलङ्की मा भूत् । अङ्गीकृतत्यागात्त्वं कलङ्की भविष्यसि ततश्चोमाभ्यामपि कुलं मलिनीकृतं स्यादित्यु- पहासः। तस्माद्यथा कुलस्य कलङ्को न भवति तथा कार्यमिति भावः ।

 पूर्वे द्वाभ्यामपि कुलं कलङ्कितमित्युक्तम्, इदानीं त्वयैवेत्याह--

 यापदृष्टिरपि या मुखमुद्रा याचमानमनु या च न तुष्टिः ।
 त्वादृशस्य सकलः स कलङ्कः शीतभासि शशकः परमङ्कः॥१२०॥

 यापेति ॥ याचमानं याचकं अनु लक्षीकृत्य या अपदृष्टिरनादरदर्शनम्, अदर्शनं वा या च मुखमुद्रा मौनं या च न तुष्टिरसंतोषः स सकलः समस्तस्त्वादृशस्य वदा- न्यस्य, धीरस्य च कलङ्कोऽपयशः। शीतभासि चन्द्रे परं केवलं शशकः अङ्कश्चिह्नम् । चन्द्रे कलङ्को न, किं तु चिह्न शशः। तस्माद्पदृष्ट्यादि त्वया न करणीयमिति भावः । शशकः, 'अल्पे' इति कन्[३]


  1. 'अत्रोपमा हेतुश्च' इति साहित्यविद्याधरी
  2. 'अत्र च्छेकानुप्रासो हेतुश्च' इति साहित्यविद्याधरी
  3. 'अत्रानुप्रासव्यतिरेकसमुच्चयसंकरः' इति साहित्यविद्याधरी