पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५८
नैषधीयचरिते

  स्रग्वासनादृष्टजनप्रसादः सत्येयमित्यद्भुतमाप भूपः ।

  क्षिप्तामदृश्यावमितां च मालामालोक्य तां विस्मयते स्म बाला ॥ ५० ॥

 स्त्रगिति ॥ भूपो नल इत्यद्भुतमाश्चर्यमाप । इति किम्-वासनादृष्टस्य चिन्तासंतानोपनीतस्य भैमीलक्षणस्य जनस्य प्रसादरूपेयं स्रक् माला सत्या सत्यरूपेति । अलीकदृष्टेन दत्तस्य कुत्रापि सत्यत्वं न दृष्टम् , अत्र त्वपूर्वं दृष्टम् । सा बाला च अलीकनलकण्ठाय क्षिप्तां तां मालामदृश्यत्वमितां प्राप्तामालोक्य विचार्य विस्मयते स्म साश्चर्या बभूव । अलीकदृष्टनलकण्ठे क्षिप्ता माला भूमौ नास्ति केन नीता किं जातमस्या इत्याश्चर्यम्[१]

  अन्योन्यमन्यत्रवीक्षमाणौ परस्परेणाध्युषितेपि देशे।

  आलिङ्गितालीकपरस्परान्तस्तथ्यं मिथस्तौ परिषस्वजाते ॥५१॥

 अन्योन्यमिति ॥ सत्यरूपेण परस्परेणाध्युषितेऽधिष्टितेऽपि देशे अन्योन्यं परस्परमन्यत्रवदन्योन्यानध्युषितदेशवध्भ्रान्तिदृष्टमिव ईक्षमाणौ विलोकयन्तौ तौ आलिङ्गितं यदलीकं परस्परं तस्यान्तर्मध्ये तथ्यं सत्यमपि मिथः परस्परं परिषस्वजाते आलिलिङ्गतुः। अलीकदृष्टस्य परस्परस्य मध्ये सत्यरूपस्याप्यालिङ्गनं जातमिति भावः। आलिङ्गितमलोकं परस्परं येन एवंभूतमन्तः अन्तःकरणं ययोरिति वा । सत्यमप्पलीकबुद्ध्यैवालिलिङ्गतुरिति भावः । परिषस्वजाते, 'सदिस्वञ्ज्योः परस्य लिटि' इति परस्य षत्वनिषेधः[२]

  स्पर्शं तमस्याधिगतापि भैमी मेने पुनर्भ्रान्तिमदर्शनेन ।

  नृपः स पश्यन्नपि तामुदीतस्तम्भो न धर्तुं सहसा शशाक ॥५२॥

 स्पर्शमिति ॥ भैमी सत्यरूपं तं अस्य स्पर्शमधिगता प्राप्तापि तस्यादर्शनेन पुनर्भ्रान्तिं मेने । सत्यस्य दर्शनेन भाव्यम्, नच दृश्यते सः, तस्मादलीकः स्पर्श इत्यमन्यत । स नृपः सत्यरूपां तां पश्यन्नपि झटित्युदीतो जातः सात्त्विकविकाररूपः स्तम्भो यस्य एवंभूतः सन् तां धर्तुं न शशाक[३]

  स्पर्शातिहर्षादृतसत्यमत्या प्रवृत्य मिथ्यातिलब्धबाधौ ।

  पुनर्मिथस्तथ्यमपि स्पृशन्तौ न श्रद्धधाते पथि तौ विमुग्धौ ॥५३॥

 स्पर्शेति ॥ सत्यरूपपरस्परस्पर्शजनितेन हर्षेणाहतयाङ्गीकृतया सत्यमत्या सत्यबुद्ध्या पुनरप्यालिङ्गनादौ प्रवृत्य पुनरप्यलीकपरस्परस्पर्शाभावान्मिथ्यात्वेन प्रतिलब्धः सत्यमतेर्बाधो याभ्यामेवंभूतौ सन्तौ तृतीयस्थाने पथि मार्गे तथ्यं सत्यरूपं मिथः परस्परं पुनः स्पृशन्तावपि विमुग्धौ भ्रान्तौ न श्रद्दधाते सत्यत्वेन स्पर्श न जानीतः स्म ।


  1. अस्मदुपलब्धसाहित्यविद्याधरीपुस्तकेऽस्य श्लोकस्स व्याख्या त्रुटितास्ति ।
  2. 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी।
  3. 'अत्र काव्यलिङ्गभावोदयालंकारौ' इति साहित्यविद्याधरी।