पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९३
सप्तमः सर्गः।

ईक्षणे नेत्रे यस्या एवंविधा जाता । यतश्च यस्माच्च चकोरस्त कोरकदृक् तस्या एव कोरकौ कलिके दृशौ यस्यैवंविधो जातः । तस्मादेतदनुमीयते । नहि सुकृतातिशयेन विना भैमीनयनत्वं चकोरनयनत्वं च तदुत्पन्नकुसुमकोरकाभ्यां लभ्यते । अन्योऽपि केदारदेवसंनिधौ हिमचूर्णनादुत्तमे वंशे जायते । शिशिरर्तोः प्रवेशे कमलिनी नश्यति । भैमीनेत्रे च कमलतुल्ये । कलिकापेक्षया कुसुमस्याधिक्याचकोरनेत्रापेक्षया भैमीनेत्रे अतिसुन्दरे इति सूचितम् । 'केदारः पर्वते शंभोः क्षेत्रभेदालवालयोः', 'शिशिरः स्या दृतोर्भेदे तुपारे' इति विश्वः॥

 नासां वर्णयति-

  नासादसीया तिलपुष्पतूणं जगत्रयव्यस्तशरत्रयस्य ।

  श्वासानिलामोदभरानुमेयां दधद्द्विबाणीं कुसुमायुधस्य ॥ ३६ ॥

 नासेति । अदसीया अमुष्याः संबन्धिनी नासा नासिका जगत्रये विजयाय व्यस्तं क्षिप्तं शरत्रयं येन तस्य कुसुमायुधस्य शरत्रयस्य क्षिप्तत्वादवशिष्टां द्विवाणी वाणद्वयीं दधत् तिलपुष्परचितं तूणं भला । पुष्पवाणस्येपुधिरपि पुष्पमयो युक्तः । तिलपुष्पं च तूणीराकारम् । किंभूतां द्विबाणीम्-श्वासानिलस्य निश्वासपवनस्यामोदभरेण परिमलवाहुल्येनानुमेयामनुमानार्हाम् । बाणत्रयेण जगत्रयं जितम्, अवशिष्टं बाणद्वयं भैमीनासालक्षणतिलपुष्पतूणीररन्ध्रद्वये स्थापितमित्य[१]र्थः ।

[२]श्लोकसप्तकनाधराष्ठ वर्णयति-

  बन्धुकबन्धूभवदेतदस्या मुखेन्दुनानेन सहोज्जिहानम् ।

  रागश्रिया शैशवयौवनीयां स्वमाह संध्यामधरोष्ठलेखा ॥ ३७॥

 बन्धूकेति ॥ अनेन प्रत्यक्षदृश्येन मुखेन्दुना सहैवोज्जिहाना उत्पद्यमाना अस्या अधरोष्टलेखा लेखाकारोधरोष्ठः एतत्प्रत्यक्षदृश्यं स्वमात्मानं शैशवयौवनीयां बाल्यतारुण्यसंबन्धिनी संध्यां ब्रूते अहमेव संध्येति । बाल्यतारुण्ययोः संधौ भवनात्संध्यात्वम् । शैशवान्ते यौवनादौ चाधरोष्ठे भूयान्रक्तिमा भवतीति भावः । किंभूतं स्वम्-रागश्रिया लोहितिमशोभया कृत्वा वन्धूकस्य मध्याह्नविकसितपुष्पस्य बन्धूभवत्समानं भवत् अतिरक्तमित्यर्थः । अथ च रात्रिदिनसंधौ संध्या भवति । संध्यापि चन्द्रेण सहैवोदेति रक्ता च भव[३]ति ॥

  अस्या [४] मुखेन्दावधरः सुधाभूबिम्बस्य युक्तः प्रतिबिम्ब एषः ।

  तस्याथवा श्रीर्दुमभाजि देशे संभाव्यमानास्य तु विद्रुमे सा॥३८॥

 अस्या इति ॥ अस्या मुखेन्दौ वदन एव चन्द्रे विद्यमान एषोऽधरोष्ठः सुधाभुव्यमृतभूमौ जातस्य बिम्बस्य बिम्बीफलस्य प्रतिविम्बः सदृशो युक्तः। बिम्बीफलस्य भै-


  1. 'अत्रातिशयोक्ती रूपकालंकारः' इति साहित्यविद्याधरी
  2. षट्श्लोक्या' इति सुखावबोधा।
  3. 'अत्रातिशयोक्ती रूपकालंकारः' इति साहित्यविद्याधरी
  4. 'मुखेन्दोः' इति पाठः