पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः।

स्तदेव कृतयुगम् । 'तपस्वी चानुकम्पार्हे' इति विश्वः । तपस्वीति 'तपःसहस्राभ्याम्-' इति विनिः'॥

यदस्य यात्रासु बलोड्वतं रजः स्फुरत्प्रतापानलधूममञ्जिम ।
तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदङ्कतां विधौ ॥७॥

 यदस्येति ॥ अस्य नलस्य यात्रासु दिग्विजयेषु यद्वलेन सैन्येनोद्धतं रजस्तदेव तद्रज एव विधौ चन्द्रेऽङ्कतां कलङ्कत्वमधुनापि दधाति । किंभूतं रजः-स्फुरन्प्रकाशमानो यः प्रतापः स एवासह्यत्वादनलोऽग्निस्तस्य यो धूमस्तस्य मञ्जिमेव सौन्दर्यमिव मञ्जिमास्य । तथा-इतो गत्वा सुधाम्बुधौ सुधासमुद्रे पतितं सदत एव पङ्कीभवत्कर्दमीभवत् । सुधाम्बुधेश्चन्द्र उत्पन्नस्तत्संबद्धः पङ्कश्चन्द्रेऽपि लग्नः, स एव कलङ्क इत्यर्थः। आसमुद्रं यात्रा सेनाबाहुल्यं चानेन द्योत्यते । सुधाम्बुधिः क्षीरसमुद्रः। सुधाम्बुधावमृतसमुद्रे इति विधुविशेषणं वा रजसः पङ्कीभवनयोग्यत्वार्थमुक्तम् । अथ च यत्पतितं पातित्यहेतुस्तदन्यस्य निर्मलस्यापि स्वसंसर्गान्मालिन्यं करोति, तदेव दधातीति काकुर्लुप्तोत्प्रेक्षा वा । 'वर्णदृढादिभ्यः-' इति दृढादेराकृतिगणत्वान्मञ्जिमेत्यत्रेमनिच् । 'द्वितीया श्रि[ताती]तपतित-' इति पतितशब्दः २साधुः॥

स्फुरड्वनुर्निस्वनतद्धनाशुगप्रगल्भवृष्टिव्ययितस्य संगरे।
निजस्य तेजःशिखिनः परश्शता ३वितेनुरिङ्गालमिवायशः परे ॥९॥

 स्फुरदिति॥ परश्शताः शतात्परेऽनन्ताः परे शत्रवः। (४दिग्देशकालवाचिनामेव पूर्वादिशब्दानां सर्वनामत्वात्कथं शत्रूवाचिनोः परापरशब्दयोः सर्वनामसंज्ञेति । अत्र कैयटादयः-देशवाचितया व्यवस्थाविषययोरेव परापरशब्दयोरुपचाराच्छत्रौ प्रतिवादिनि प्रयोगमाहुः । वस्तुतस्तु परापरशब्दयोर्देशान्तरनिष्ठत्वादिकमेवार्थः । शत्रुत्वादिकं त्वार्थिकोऽर्थः। ) संगरे सङ्ग्रामे निजस्य स्वकीयस्य तेजःशिखिनः प्रतापाग्नेरिङ्गालमिव दग्धकाष्ठमिवायशो वितेनुर्विस्तारयामासुः । इङ्गालो भाषाशब्दः। कविभिर्यशो धवलम्, अयशः श्यामं वर्ण्यते । कथंभूतस्य तेजःशिखिनः-स्फुरदिति । स्फुरन्प्रकाशमानो धनुर्निस्वनः कोदण्डशब्दो यस्य, एवंविधश्चासौ स नलश्च स्फुरद्धनिस्वनसः, तस्य नलस्य घना निबिडा ये आशुगा बाणास्तेषां प्रगल्भा प्रौढासह्या या वृष्टिस्तया व्ययितस्य निर्वापितस्य । स्फुरन्धनुर्निस्वनो यस्यामिति वृष्टिविशेषणं वा । तस्य


१ 'अत्रानुप्रासः शब्दालंकारः । अनुमानमर्थालंकारः । 'अनुमानं तदुक्तं यत्साध्यसाधनयोर्वचः' । अधर्मोऽपि तपस्वितां दधाविति विरोधाभासः' इति साहित्यविद्याधरी ॥ अत्रार्थापत्तिरलंकारः 'एकत्र वस्तुनो भावाद्यत्र वस्त्वन्यथा भवेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिरलंक्रिया ॥' इति स्मरणादिति जीवातुः । २ ‘पङ्कीभवद्रजसो विधावङ्कत्वं किं वस्तुगत्योच्यते, आहौस्विदुत्प्रेक्ष्यते । नाद्यः । कविपुराणादिषु प्रसिद्धेरभावात् । नापि द्वितीयः । उत्प्रेक्षाद्योतकस्येवादिपदादेरभावादिति चेत् । अत्राभिधीयते-तदेवेत्यत्रैवकारः प्रसिद्धपक्षान्तरव्युदासाय विधीयते । तद्रज एव पङ्कत्वेनाङ्कत्वमभजत्, न तु प्रसिद्धशशिमृगादिरिति भाव इति तिलकव्याख्या । अत्रातिशयोक्तिरलंकारः' इति साहित्याविद्याधरी । रूपकसंसृष्टा गम्योत्प्रेक्षेति जीवातुः । ३ 'रङ्गार' इति तु सुखावबोधासंमतः पाठः । ४ अयं पाठः कुत्रचिन्नास्ति ।