पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९९
सनमः सर्गः ।

कृतमिति वितर्कः ॥ अस्या मुखमुन्नमय्येति वा योजना | कथं ज्ञातामत्यत आह-यद्यसात् मनाक् ईषन्निम्ने गम्भीरे चिबुके हन्वग्रसंधौ धृत्युद्भवाऽङ्गुलिधारणजन्याऽङ्गुल्या कृत्वा या यन्त्रणा नियमना सैव चकास्ति शोभते । अतिमार्दवादङ्गुलिधारणादपि हन्वग्रसंधौ निम्नत्वं जातमित्यर्थः । उत्तमस्त्रीणां स्वभावादेव चिबुकं निम्नं भवतीति[१]

 पुनरपि श्लोकनवकेन सावयचं मुखं वर्णयति-

  प्रियामुखीभूय सुखी सुधांशुर्जयत्ययं राहुभयव्ययेन ।

  इमां दधाराधरविम्बलीलां तस्यैव वालं करचक्रवालम् ॥ ५२ ॥

 प्रियेति ॥ अयं सुधांशुश्चन्द्रः प्रियामुखीभूय भैमीमुखत्वं प्राप्य मुखाकारेण परिणम्य राहुभयस्य व्ययेनाभावेन सुखी निश्चिन्तः सन् जयति सर्वोत्कर्षेण वर्तते । मुखचन्द्रस्य राहुबाधा नास्तीति सुखित्वम् । यतश्चायं चन्द्र एव, तस्मात्तस्यैव चन्द्रस्य वालं उदयसमयभावि करचक्रवालं किरणमण्डलं इमां प्रत्यक्षाधरबिम्बलीलामधरोष्ठबिम्बविलासं दधार । चन्द्रतुल्यं मुखम्, उदितमात्ररक्तचन्द्रकिरणतुल्योऽधरोष्ठश्चेति भावः । अन्योऽपि वैरिणः सकाशाद्भीतस्तदीयः परिजनोऽपि भीतः सन् तदनवबो- धार्थमन्यमाकारं कृत्वा धारयन्सुखी भवति । बालश्च लीलां धारय[२]ति ॥

  अस्या मुखस्यास्तु न पूर्णमास्यं पूर्णस्य जित्वा महिमा हिमांशुम्

  भूलक्ष्म खण्डं दधदर्धमिन्दुर्भालस्तृतीयः खलु यस्य भागः॥५३॥

 अस्या इति ॥ पूर्णस्य सर्वावयवपरिपूर्णस्य, अथ च वर्तुलस्य अस्या मुखस्य महिमा श्रेष्ठत्वं कीर्तिः, अथ च चन्द्रापेक्षयाऽधिकपरिमाणत्वं नास्तु अपित्वस्त्वित्यर्थः । किंभूतस्य-पूर्णमा[३] आस्यं प्रारम्भो यस्य, यदुये पूर्णिमास्ति, पूर्णिमाया आस्यमिव वा तथाभूतं हिमांशुं पूर्णचन्द्रं जित्वा स्थितस्य । कुतोऽधिकत्वमत आह-खलु यस्मात् यस्य मुखस्य तृतीयो भागोंशो भालो ललाटमर्धखण्डं इन्दुः समशकलरूप श्चन्द्रः। किंभूत इन्दुः-ध्रुवावेव लक्ष्म कलङ्कं दधत् धारयन् । मुखस्य तृतीयो भागो भालो यस्य चन्द्रार्धम् , एकेनांशेन मुखम् । भालोऽर्धचन्द्रतुल्यः, तधोभागः पूर्णचन्द्रतुल्य इत्यर्थः । चन्द्राधिकमुखी चन्द्रार्धतुल्यभाला चेयमिति भावः । जित्वेत्यनन्तरं स्थितस्येत्यध्याहार्यम् । अन्यथा भिन्नकर्तृकत्वात्क्त्वानुपपत्तिः[४]

  व्यधत्त धाता वदनाब्जमस्याः सम्राजमम्भोजकुलेखिलेपि ।

  सरोजराजौ सृजतोदसीयां नेत्राभिधेयावत एव सेवाम् ॥ ५४॥

 व्यधत्तेति ॥ धाता अखिलेऽपि अम्भोजकुलेऽस्या मुखपद्मं सम्राजं द्वादशराजमण्डलाधीशं व्यधत्त अकृत । अथ च तदपेक्षया सम्यगतिशयितं राजत इति सम्राजम् ।


,

  1. 'अत्रानुमानोत्प्रेक्षानुप्रासालंकारसंकरः' इति साहित्यविद्याधरी
  2. 'अत्र छेकानुप्रासातिशयोक्ति व्यतिरेकरूपकालंकाराः' इति साहित्यविद्याधरी
  3. 'अथ च पूर्णमासी तु पूर्णिमा । पूर्णमा पौर्णमासी च' इति केशवः ॥
  4. 'अत्र प्रतीपातिशयोक्त्यलंकारौं' इति साहित्यविद्याधरी