पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०१
सप्तमः सर्गः।

चन्द्रौ न भवतः, तदा भैमीमुखसदृशौ कुतस्तरां भवेताम्, अपि तु न कुतोपीति भावः । चौ परस्परसमुच्चये । याचितकं याचितेनं प्राप्तमित्यर्थे 'अपमित्ययाचिताभ्यां कक्कनौ' इति कन्[१]

  अर्काय पत्ये खलु तिष्ठमाना भृङ्गैर्मितामक्षिभिरम्बुकेलौ।

  भैमीमुखस्य श्रियमम्बुजिन्यो याचन्ति विस्तारितपद्महस्ताः॥५७॥

 अर्कायेति ॥ अर्काय सूर्याय पत्ये प्रियाय तिष्ठमानाः स्वप्रकाशनेन सूर्य स्वीयं भावं शापयितुकामा अम्बुजिन्यः अम्बुकेलौ जलक्रीडासमये भृङ्गरूपैरक्षिभिर्नेत्रैः कृत्वा मितां ज्ञातां भैम्या एव मुखस्य श्रियं विस्तारिताः पद्मरूपा हस्ता याभिस्ता एवंभूताः सत्यो भैमीं याचन्ति । खलूत्प्रेक्षते । अस्मत्पतिः सूर्योऽधुना समागमिष्यतीति त्वन्मुखशोभयापि रुचिरा भवाम इति भैमीमुखशोभां भैमीं याचन्त इत्यर्थः । कमलभैमीमुखयोः सर्वथा साम्यं नास्तीति भावः । अन्योऽपि स्वामिनि हस्तं प्रसार्य दृक्संशया याचते । अन्याप्यन्यदीयमलंकारं स्वालंकरणार्थं हस्तौ प्रसार्य याचते । क्रीडासमये याचितमवश्यं प्रभुणा दीयते । अर्काय 'श्लाघह्णुङ्-' इति संप्रदानत्वम् । तिष्ठमाना 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदम् । स्वीयं भावं शापयितुमिति हेतौ वा शानच् । याचिर्द्विकर्मा[२] र्मा॥

  अस्या मुखेनैव विजित्य नित्यस्पर्धी मिलत्कुङ्कुमरोषभासा।

  प्रसह्य चन्द्रः खलु नद्यमानः स्यादेव तिष्ठत्परिवेषपाशः ॥ ५ ॥

 अस्या इति ॥ अस्या मुखेनैव नित्यस्पर्धी सदा स्पर्धमानश्चन्द्रः विजित्य पराभूय खलु निश्चितं प्रसह्य हठात् नह्यमानो बध्यमान एवाधुनापि तिष्ठन् परिवेष एव पाशो बन्धनरज्जुर्यस्यैवंविधः स्याद्भवेत् । नान्यथैतद्धटत इत्यर्थः । किंभूतेन मुखेन-उद्वर्तनार्थ मिलत्संलग्नं कुङ्कुमं तदेव रोषभाः क्रोधलौहित्यं यस्मिन्, मिलन्ती कुङ्कुमरूपा रोषभा यस्मिन्निति वा भैमीमुखस्पर्धया सापराधश्चन्द्रः मुखेनैव जित्वा परिवेषमिषेण बद्ध इत्यर्थः । चन्द्रोऽपि भैमीमुखसमानो न भवतीति भावः । अन्योपि स्पर्धमानं रोषारुणः सन् हठाद्विजित्य निबध्नाति । सोऽपि बद्ध एव ति तीति । खलुरुत्प्रेक्षायां वा नाहेयमान इव इ[३] इति ॥

  विधोर्विधिर्बिम्बशतानि लोपं लोपं कुहूरात्रिषु मासिमासि।

  अभङ्गुरश्रीकममुं किमस्या मुखेन्दुमस्थापयदेकशेषम् ॥ ५९॥

 विधोरिति ॥ विधिः मासि मासि प्रतिमासं कुहूरात्रिषु नष्टेन्दुकलामावास्यारात्रिषु विधोश्चन्द्रस्य बिम्बशतानि बहूनि मण्डलानि लोपंलोपं विलुप्य विलुप्य अभङ्गुरश्री-


  1. 'अत्रातिशयोक्तियथासंख्यसमासोत्तयुत्प्रेक्षालंकाराः' इति साहित्यविद्याधरी
  2. 'अत्र रूपकोत्प्रेक्षासमासोक्त्यलंकाराः' इति साहित्यविद्याधरी
  3. 'अत्र पूर्ववदलंकाराः' इति साहित्यविद्याधरी।