सीमाश्चतस्रो विवमाज विभक्तवान् ! रेखात्रयेण चत्वारि स्थानानि भवन्ति । कविन्यादिकलावती कम्बुकण्ठी चेयमिति भावः । रेखात्रयाङ्किता ग्रीवा कम्युग्रीवेति कथ्य[१]ते' ।
श्लोकद्वयेन बाहू वर्णयति --
बाहू प्रियाया जयतां मृणालं द्वन्द्वे जयो नाम न विस्मयोस्मिन् ।
उच्चैस्तु तच्चित्रममुष्य भग्नस्यालोक्यते निर्व्यथनं यदन्तः ॥ ६८ ॥
बाहू इति ॥ प्रियाया बाहू मृणालं जयताम् । अनुमतमेतत् । यतः अस्मिन् भुजलक्षणे द्वन्द्वे जयो नाम यत् स न विस्मयः । अतिगौरवा(त्वा)दतिमृदुत्वाञ्च वाहुभ्यां मृणालं जितम् । किमाश्चर्यमित्यर्थः । अथ च द्वाभ्यामेकः सुखेन पराजीयते । अथ च द्वन्द्धे युद्धे जयो भवत्यत्र नाश्चर्यम्। एकस्य युद्धे जयो भवत्येव । तन्तु तत्पुनरुचैरतिशयितं चित्रमाश्चर्यम् । यत् भग्नस्य जितस्यामुष्यान्तरन्तःकरणं निर्व्यथनं व्यथारहित- मालोक्यते । पराजितस्यान्तःकरणं सव्यथं भवति अस्यांतु नेत्याश्चर्यम् । द्विधाकृतमृणालमध्ये छिद्राणि दृश्यन्ते । भैमीभुजौ मृणालादपि गौरतरौ । कोमलतराविति भावः । 'द्वन्द्वं कलहयुग्मयोः', 'छिद्रं निर्व्यथनम्'. इत्यमरः । पक्षे निर्गतं व्यथनान्निव्यर्थनम्, 'निरादयः-' इति तत्पुरुपः[२] ॥
अजीयतावर्तशुभंयुनास्या दोर्भ्यां मृणालं किमु कोमलाभ्याम् ।
निःसूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमग्नम् ॥६९॥
अजीयतेति ॥ आवर्तेन दक्षिणावर्तन शुभंयुः शुभान्विता रमणीया नाभिर्यस्यास्तया भैम्या कोमलाभ्यां दोर्भ्यां भुजाभ्यां कृत्वा मृणालमजीयत पराजितम् । किमु संभावना- याम्। अत एव निःसूत्रं निर्व्यवस्थं स्फूतिरहितं निरुपायं सत्।अथ च तन्तुरहितं तन्मृणालं धनपङ्कमृत्यु निविडकर्दममृत्तिकारूपासु मूर्तासु शरीरधारिणीपु अर्कातिप्वयशःसु निमग्नं किमु नास्ते, अपि तु ताभ्यां जितत्वादेवैवंविधमास्ते । अयशसः श्यामरूपत्वा- न्मृद्रूपत्वम् । अतिकोमलं मृणालं तन्तुरहितं भवति । अन्योऽपि केनचिज्जितो निरुपायः सन्नकीर्तिषु निमज्ज्य तिष्ठति । कोमलमपि मृणालं भैमीभुजसदृशं नेति भावः । 'सूत्रं तु सूचनाग्रन्थे सूत्रं तन्तुव्यवस्थयोः' इति विश्वः । शुभंयुः, मत्वर्थे 'अहंशुममोर्युस्[३] ॥
श्लोकत्रयेण पाणिं वर्णयति-
रज्यनखस्याङ्गुलिपञ्चकस्य मिषादसौ हैङ्गुलपद्मतूणे
हैमैकपुङ्खास्ति विशुद्धपर्वा मियाकरे पञ्चशरी सरस्य ॥ ७० ॥
रज्यदिति ॥ असौ प्रत्यक्षदृश्या स्मरस्य पञ्चशरी रज्यन्तः स्वयमेव रक्ता भवन्तो नखा यस्य अङ्गुलीनां पञ्चकस्य मिषाव्द्याजात् प्रियाया भैम्याः करे अस्ति । किंभूते-