पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१६
नैषधीयचरिते

 अस्या इति ॥ चारुतया सौन्दर्येण कृत्वा महान्तौ उत्तमौ अस्याः पदावपेक्ष्य यत्सौक्ष्म्यमल्पत्वम् , एतस्याः सुन्दरपदापेक्षया स्वस्य यदल्पत्वम् । तादृक्सौन्दर्याभावादित्यर्थः। तस्मात् लवभावभाजः पदशोभालेशरूपत्वं भजतः महीरुहाणां प्रवालस्य बालकिसलयस्य 'पल्लव' इति शब्दस्तस्य लब्धिर्लाभो जात इति वयं जानीमहे । पदो लवः भैम्याश्चरणसंबन्धी लवो लेशो यस्य पदो लवरूपो वायमिति पल्लवशब्दः । प्रवालशब्दस्य पल्लवशब्दप्राप्तिरतो जातेत्यर्थः । प्रवालादप्यधिकरमणीयौ चरणाविति भावः । लब्धिरिति क्तिन्नाबादिभ्यः' इति तिन्[१]

  जगद्वधूमूर्धसु रूपदर्पाद्यदेतयादायि पदारविन्दम् ।

  तत्सान्द्रसिन्दूरपरागरागैर्द्वयं प्रवालप्रवलारुणं तत् ॥ १०० ॥

 जगदिति ॥ एतया (सु)रूपदर्पात्सौन्दर्यगर्वाज्जगद्वधूमूर्धसु लोकत्रयसुन्दरीशिरःसु पदारविन्दं यद्यस्माददायि दत्तम् । तत्पदारविन्दद्वयं तेषु मूर्धसु सान्द्रं यत्सिन्दूरं तस्य परागास्तेषां रागैर्लौहित्यैः कृत्वा प्रवालात्पल्लवात्, विद्रुमाद्वा प्रबलमधिकम् अरुणमारक्तं जातं । ध्रुवमुत्प्रेक्षे । भैमीचरणावत्यरुणाविति भावः[२]

  रुषारुणा सर्वगुणैर्जयन्त्या भैम्याः पदं श्रीः स्म विधेर्वृणीते।

  ध्रुवं स तामच्छलयद्यतः सा भृशारुणैतत्पदभाग्विभाति ॥१०१॥

 रुषेति ॥ श्रीर्लक्ष्मीः शोभा च विधेर्ब्रह्मणः सकाशाद्भैम्याः पदं स्थानं स्वरूपत्वं अधिकारं वा वृणीते स्म । यतः सर्वैः स्त्रीगुणैः कृत्वा श्रियं जयन्त्याः । अत एव किंभूता-रुषा क्रोधेन अरुणा । स ब्रह्मा ध्रुवं निश्चितं तां श्रियमच्छलयत्प्रतारितवान् । यतो यस्माद्भृशारुणातिरक्ता सा श्रीः एतत्पदभाग्भैमीचरणसेविनी विभाति शोभते । यद्वा भृशारुण इति पदविशेषणत्वेनैकं पदम् । पशब्दच्छलेन भैमीचरणं दत्तवान्, न स्वरूपादि । शत्रुणा जितोऽन्योपि देवतां प्रसन्नीकृत्य तत्पदं याचते । भैमीचरणशोभा लोकोत्तरेति [३]भावः॥

  यानेन तन्या जितदन्तिनाथौ पादाब्जराजौ परिशुद्धपार्ष्णी ।

  जाने न शुश्रूषयितुं स्वमिच्छू नतेन मूर्ध्ना कतरस्य राज्ञः॥१०२॥

 यानेनेति ॥ तन्व्याः पादाब्जराजौ श्रेष्ठकमलतुल्यौ चरणौ कतरस्य राज्ञः कस्य नृपस्य प्रणयकलहे नमस्कारार्थं नतेन नम्रेण मूर्धा प्रयोज्येन स्वमात्मानं शुश्रूषयितुमात्मसेवां कारयितुम् इच्छू अभिलाषुकाविति न जाने । किंभूतौ-यानेन गमनेन कृत्वा जितो दन्तिनाथो हस्तिश्रेष्ठो याभ्याम् । तथा -परिशुद्धो रमणीयः पाणिश्चरणपश्चाद्भागो ययोस्तौ । एतादृक् महत्तपः केन राज्ञा कृतमिति न जाने इत्यर्थः । गजगमनेयमिति भावः। भैमीचरणावेव राजानौ यानेन विजययात्रया जितः गजपतिः गौडेश्वरो याभ्यां



  1. 'अत्रोत्प्रेक्षातिशयोक्तिश्चालंकारः' इति साहित्यविद्याधरी
  2. 'अत्र च्छेकानुप्रासः, असंबन्धे संबन्धरूपातिशयोक्तिश्च' ।
  3. 'अत्रोत्प्रेक्षा' इति साहित्यविद्याधरी