पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२१
अष्टमः सर्गः


 यदक्रम विक्रमशक्तिसाम्यादुपाचरद्द्वावपि पञ्चबाणः ।
 कथं न वैमत्यममुष्य चक्रे शनैरनर्धार्धविभागभाग्भिः ॥ ४॥

 यदिति ॥ पञ्चबाणः कामो द्वावपि नलभैम्यौ अक्रमं परिपाटीरहितं युगपद्विक्रमरूपायाः शक्तेः सामर्थ्यस्य साम्यात् विक्रमो मनउत्साहः, शक्तिः शारीरं बलं तयोः साम्यात्तुल्यत्वाद्वा यद्यस्मादुपाचरदात्मवशीचकार । तत्तस्मात्पञ्चबाणत्वेऽप्यमुप्य का- मस्य अर्धेनार्धेन अर्धाधिकाभ्यां द्वाभ्यां द्वाभ्यां विभागः तद्भाजो न भवन्ति तैरनर्धार्धविभागभाग्भिः एवंभूतैरपि वाणैर्वैमत्यं वैषम्यं न कृतम् । पञ्चभिरपि प्रथमं नलस्य व्यधं कृत्वानन्तरं तावद्भिरेव भैम्या व्यधं चेदकरिष्यत्तर्ह्युभयोस्तुल्योऽनुरागोऽघटिप्यत । तत्तु तेन न कृतम् , तुल्यकालमेवोभयोरनुरागदर्शनात् । यद्येकसमयावच्छेदेन व्यधं कुर्यात्तर्हि बाणानां दशत्वात्पञ्चत्वं भज्येत । तस्मादर्धाधिकौ द्वौ द्वौ वाणी चेत्संभवतस्तर्ह्यप्यनुरागसाम्यं संभाव्येतापि । न त्वेवं युज्यते । भग्नस्य बाणस्य व्यधेऽसामर्थ्यात् । द्वाभ्यां नलस्य त्रिभिर्भैम्या व्यधे वैपरीत्येन वा, अनुरागे वैषम्येण भवितव्यम् । तच्च यौगपद्ये वाणवैषम्ये च सत्यपि न जातम् । तत्र पराक्रमशक्तिसाम्यमेव हेतुरित्यर्थः । द्वयोरप्येककालमेव तुल्य एवानुरागो जात इति भावः। यद्वा वैमत्यं कलहः विषमसंख्यत्वाद्वाणानां विभागोन घटते । एकस्य द्वैधीकरणे तत्सर्वेषामपि प्राप्नोति, यस्य च प्राप्नोति स एव वैमत्यमाचरत्तीत्यर्थः। बाणानां वैमत्यभिया स्वविक्रमशक्तिसाम्यादेवोपाचरदिति वा । यथा राजा स्वसेवकानां वैमत्यभियान्यप्रकारेण कार्यं साधयति तथैवेत्यर्थः । तस्मादेव तैर्वैमत्यं न कृतमिति भावः । अथ च । वेः पक्षिणः क्रम आक्रमणं ग्रहणं तत्र या शक्तिः सामर्थ्ये तेन साम्यात्तुल्यत्वात् । 'खलेकपोतन्यायेन' इति यावत् । यथा कपोतः खले पतितान्कणान्युगपच्चञ्चवा गृह्णाति तथा पञ्चवाणोऽपि युगपद्द्वावपि तेन न्यायेन यस्मादुपाचरत् , तस्मादस्य वाणैरपि विषमसंख्यत्वेऽपि विरुद्धत्वं नाकारि । अथ च कामेनायं न्यायोऽङ्गीकृतः । अत एव वेर्मतिरिव मतिर्यस्य तद्भावो वैमत्यं खलेकपोतन्याय एव । स कामवाणैरपि न कृतः, अपितु कृत एवेति काका व्याख्येयम् । तैरपि पञ्चभिरेकदैव मिलित्वा युगपदेव तौ वशीकृतौ । कालस्य सूक्ष्मत्वात् । विक्रमतुल्यो नलः, शक्तितुल्या भैमी, ततो विक्रमशक्तितुल्यौ तौ सकृदेव स्वबाणैः कुसुमैरपूजयदित्यर्थ इति वा[१]

 अनुरागसाम्यमेवाह-

 तस्मिन्नलोसाविति सान्वरज्यत क्षणं क्षणं क्वेह स इत्युदास्त ।
 पुनः स्म तस्यां वलतेऽस्य चित्तं दूत्यादनेनाथ पुनर्न्यवर्ति ॥ 4 ॥

 तस्मिन्निति ॥ सा भैमी तस्मिन्पुरुषे असौ नल इति हेतोः अन्वरज्यतानुरक्ता बभूव । अनन्तरं सोऽतिसुन्दरो नलोऽतिसुरक्षिते इहास्मिन्नन्तःपुरे क्व कुत इति क्षणंक्षणं प्रति-

  1. 'अत्र छेकानुप्रासातिशयोक्त्यलंकारौं' इति साहित्यावद्याधरी । 'अत्र विषमैर्युगपदुभयत्र समरप्रहारविरोधस्य स्मरमहिन्ना समाधानाद्विरोधाभासोलंकारः' इति जीवातुः