पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४४
नैषधीयचरिते

  सोमाय कुप्यन्निव विप्रयुक्तः स सोममाचामति हूयमानम् ।

  नामापि जगति हि यत्र शत्रोस्तेजस्विनस्तं कतमे हसन्ते ॥ ७४॥

 सोमायेति ॥ विप्रैर्युक्तः वियोगी च स वह्निः सोमाय चन्द्राय कुप्यन्निव हूयमानं दीयमानं सोमाख्यं लताविशेषरसमाचामति पिबति । ननु चन्द्रापराधे सोमलतां किमिति अक्षितवानित्याशङ्क्यार्थान्तरन्यासेनापनुदति-हि यस्माद्यत्र जने शत्रोः नाम अपि जागर्ति, कतमे के तेजस्विनस्तं जनं सहन्ते सोढुं शक्नुवन्ति, अपि तु न कोपि । स्ववैरिचन्द्रस्य सोमनाम्न्यां लतायां नामसद्भावात्तेजस्विनाऽग्निना सा भक्षितेति युक्तमेव । चन्द्रस्तं पीडयतीति भावः । सोमाय 'क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः' इति संप्रदानत्वे 'चतुर्थी संप्रदाने' इति चतु[१]र्थी ॥

  शरैरजस्रं कुसुमायुधस्य कदर्थ्यमान[२]स्तरुणि त्वदर्थे ।

  अभ्यर्चयद्भिर्विनिवेद्यमानादप्येष मन्ये कुसुमाहिभेति ॥ ७५ ॥

 शरैरिति ॥ हे तरुणि, त्वदर्थे त्वत्कृते कुसुमायुधस्य शरैरजस्रं निरन्तरं कदर्थ्यमानः पीड्यमानः सन् स एष वह्निरभ्यर्चयद्भिः पूजकैः पूजार्थमेव विनिवेद्यमानादेकस्मा- दपि कुसुमाद्विभेति मदनशरबुद्ध्या त्रस्यतीत्यहं मन्ये । 'एष देवः' इत्यपि पाठः । मदनेन वह्विः पीड्यत इति भावः[३]

  स्मरेन्धने वक्षसि तेन दता संवर्तिका शैवलवल्लिचित्रा।

  रराज चेतोभवपावकस्य धूमाविला कीलपरम्परेव ॥ ७६ ॥

 स्मरेति ॥ तेन वह्निना स्मरस्येन्धने(नभूते)मदनानलस्य दह्यमानत्वात्काष्ठतुल्ये स्ववक्षसि दत्ता निहिता शैवलवल्या कृत्वा चित्रवर्णा आश्चर्यरूपा च संवर्तिका नवदलं (पद्म)चेतोभवः कामस्तल्लक्षणस्य पावकस्याग्ने—माविला धूममिश्रिता कीलपरम्परेव ज्वालासमुदाय इव चकास्ति शोभते । मदनज्वरशान्त्यर्थं शैवालं नवदलं कमलं च वक्षसि निक्षिप्तम् । पिङ्गस्य कमलस्य हृदयोपरि विद्यमानत्वात्कामपावककीलत्वम् । शैवलस्य च श्यामत्वाद्भूमत्वम् । 'संवर्तिका नवदलम्' इत्यमरः । 'वह्नेर्द्वयोर्ज्वालावलीकीलौ' इत्यमरवचनात्कीलशब्दः पुंलिङ्गोऽपि[४]

  [५]पुत्री सुहृद्येन सरोरुहाणां यत्प्रेयसी चन्दनवासिता दिक् ।

  धैर्यं विभुः सोपि तवैव हेतोः स्मरप्रतापज्वलने जुहाव ॥ ७७ ॥

 पुत्रीति ॥ विकासकारित्वात्सरोरुहाणां सुहृत् सूर्यो येन कृत्वा पुत्री पुत्रवान्, चन्दनेन वासिता परिमलाढ्या दिक् दक्षिणा यत्प्रेयसी यस्य प्रियतमा, सोपि यमल-



  1. 'अर्थान्तरन्यासोत्प्रेक्षाश्लेषालंकारः' इति साहित्यविद्याधरी ।
  2. 'स्तव कारणाय' इति पाठो जीवातुसंमतः ।
  3. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी ।
  4. 'अत्र छेकानुप्रासोत्प्रेक्षालं. कारः' इति साहित्यविद्याधरी ।
  5. 'अथ यमस्य विरहावस्थां वर्णयति-' इति जीवातुः ।