क्षणो विभुस्तवैव हेतोः स्मरप्रतापज्वलने कामजन्यसंतापरूपेऽनले धैर्य जुहाव । कामज्वरवशाद्धयं त्यक्तवानित्यर्थः । पितृमित्रत्वाच्छीतलानि कमलानि, प्रियायाश्चन्दना वशवर्तिनो यद्यपि, तथापि त्वद्विषयं यमस्य विरहदाहं शमयितुं न शकुवन्तीत्याश्चर्यम्। कुलं स्थानं च कथितम् । यमोऽपि त्वद्वशो जात इत्यर्थः । तवैव हेतोः, 'पष्ठी हेतुप्रयोगे' इति ष[१]ष्ठी॥
तं दह्यमानैरपि मन्मथैधं हस्तैरुपास्ते मलयः प्रवालैः।
कृच्छ्रेऽप्यसौ नोज्झति तस्य सेवां सदा यदाशामवलम्बते यः ॥७८॥
तमिति ॥ मलयः पर्वतः जाज्वल्यमानत्वान्मदनस्य एधमिन्धनं तं यमं कामेन्धनत्वादेवातिशयेन दह्यमानैर्जाज्वल्यमानैरपि यदर्थमवचितैः प्रवालैः पल्लवरूपैर्हस्तैः कृत्वा उपास्ते सेवते । युक्तमेतत्-यः सदा यदाशां यत्संवन्धिनी तृष्णामवलम्वते धारयति । यो यदधीनजीवि इत्यर्थः । असौ स तस्य सेवया स्वस्य कृच्छ्रे कष्टे जायमानेऽपि तस्य सेवां नोज्झति न त्यजति । 'अदः परस्मिन्नत्रापि' इति पचनादसावित्यस्य स इत्यर्थः । अयमपि सदा यमदिशमलवम्बते ततो हस्तसंतापे सत्यपि सेवां चक्रे इत्युचितमित्यर्थः । अन्योऽप्यनुजीवी स्वामिनो दारिद्येऽपि सेवां करोति । एधशब्दोऽकारा[२]न्तोऽपि ॥
स्मरस्य कीर्त्येव सितीकृतानि तद्दोःप्रतापैरिव तापितानि ।
अङ्गानि धत्ते स भवद्वियोगात्पाण्डूनि चण्डज्वरजर्जराणि ॥७९॥
स्मरस्येति ॥ स यमः भवत्या वियोगाद्धेतोः अङ्गानि पाण्डूनि चण्डः तीव्रो ज्वरस्तेन जर्जराणि, विशीर्णानि च धत्ते । तत्र हेतूत्प्रेक्षे यथाक्रमम्-किंभूतान्यङ्गानि स्मरस्य कीर्त्या यशसा श्वेतीकृतानीव । तथा-तस्य कामस्य दो प्रतापैः वाहुक्षतेजोभिः तापितानीव । संतापितं हि जर्जरितं भवति । कामस्तमतितरां पीडयतीति भावः॥[३]
य[४]स्तन्वि भर्ता घुसृणेन सायं दिशः समालम्भनकौतुकिन्याः।
तदा स चेतः प्रजिघाय तुभ्यं यदा गतो नैति निवृत्य पान्थः॥८०॥
य इति ॥ हे तन्वि कृशाङ्गि, यः सायं घुसृणेन कुङ्कुमेन समालम्भनेऽङ्गरागविषये कौतुकिन्याः सायंसंध्यानुरागयुक्ताया दिशः प्रतीच्या भर्ता वरुणः (समये) तदा चित्राव्यतीपातादौ समये तुभ्यं त्वदर्थं चेतः प्रजिघाय प्राहिणोत् । यदा समये गतः पान्थः निवृस्य परावृत्य नैति नागच्छति । यदाप्रभृति तस्य मनस्त्वयि लग्नं, तदाप्रभृति व्या-