प्रतिज्ञातमपि शृणु । तदेवाह-स नलः नृपः इमं पाणिं चेत् न पीडयेन्मदीयपाणिग्रहणं न कुर्यात् , तत्तर्हि हुताशनेनोद्वन्धनेन शाखादौ रज्ज्वा कण्ठोर्ध्वबन्धनेन वारिणा च प्रयोज्येन कारितां विधापितां निजायुषः स्वजीवितस्य स्वैनेवात्मनैव वैरितां शत्रुतां करवै । ममादृष्टवशाद्देवानुरोधाद्वा, चेन्मां नलो नाङ्गीकुर्यात्तर्हि वह्नयादिष्वन्यतमेनोपायेन स्वजीवितं त्यक्ष्यामि, अन्य कंचन न वृणे इति । पूर्वनिपातानित्यत्वं पूर्वोक्तं ज्ञातव्यम् । 'वारिताम्' इति पाठे निषिद्धाम् । अग्न्यादिभिर्मरणे निषिद्धम् ॥
आत्मघातोऽनुचित इत्यत आह-
निषिद्धमप्याचरणीयमापदि क्रिया सती नावति यत्र सर्वथा ।
घनाम्बुना राजपथे हि[१] पिच्छिले क्वचिद्बुधैरप्यपथेन गम्यते ॥३६॥
निषिद्धमिति ॥ यत्र यस्यामापदि सती श्रुत्याद्यविरोधिनी क्रिया सर्वथा केनापि प्रकारेणात्मानं नावति न रक्षति, तस्यामापदि सत्यां निषिद्धमपि कर्माचरणीयम् । अचिकित्स्यव्याध्यादौ भृगुपतनादिभिर्मरणमापद्धर्मनिरूपणप्रस्तावेऽभिहितम् । नलं विना कामज्वरपीडायामापदि निषिद्धमप्याचरणीयमेवेति भावः । तदेवार्थान्तरन्यासेनाह-हि यस्मात् घनाम्बुना सान्द्रजलेन मेघजलेन वा राजपथे राजमार्गे पिच्छिले पङ्किले सति बुधैरपि पण्डितैरपि क्वचित् किंचिदुद्दिश्य अपथेन कापथेन गम्यते । राजमार्गस्य पङ्किलत्वागत्यन्तराभावादमार्गगामित्वेऽपि न दोष इत्यर्थः । पिच्छिले, पिच्छादित्वादिलच् । अपथेन ‘पथो विभाषा' इति समासान्तः[२]॥
स्वोक्तं निगमयन्ती दूतं प्रार्थयते-
स्त्रिया मया वारिग्मषु तेषु शक्यते न जातु सम्यग्वितरीतुमुत्तरम्।
तदत्र मद्भाषितसूत्रपद्धतौ प्रबन्धृतास्तु प्रतिबन्धृता न ते ॥३७॥
स्त्रियेति ॥ स्त्रिया मया वाग्ग्मिषु पण्डितेषु तेषु देवेषु सम्यक् संतोषकारि उत्तरं जातु कदाचिदपि वितरीतुं न शक्यते यस्मात् , तत्तस्मात् अत्रास्यां मम भाषितमेव सूत्रं तस्य पद्धती रचना तस्यां विषये ते तव प्रबन्धृता प्रबन्धकारित्वं भाष्यकारित्वं वार्तिककारित्वं वास्तु । प्रतिबन्धृता तु दूषकत्वं नास्तु । सूत्रप्रायं मद्वचनं स्वकल्पितैर्विवरणपदैः सोपस्कारं कृत्वा देवास्त्वया बोधनीयाः, न तु मद्वचने दूषणं कर्तव्यम् । यथा भाष्यकर्त्रा सूत्रं समर्थ्यते नतु दूष्यते । उभयत्रापि तृजन्ताद्बन्धेस्तल् । उपसर्गवशादर्थभेदः[३]॥
निरस्य दूतः स तथा विसर्जितः नियोक्तिरप्याह कदुष्णमक्षरम् ।
कुतूहलेनेव मुहुः कुहूरवं विडम्ब्य डिम्भेन पिकः प्रकोपितः॥३०॥