पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६९
नवमः सर्गः।

 निरस्येति ॥ तथा पूर्वोक्तेन प्रकारेण निरस निराकृत्य प्रियोक्तिरपि मधुरवचनोऽपि विसर्जितः प्रेषितः (दूतः) कदुण्णं संतापकरमक्षरं वक्ष्यमाणप्रकारेणाह स्म वदति स्म । क इव-डिम्भेन बालकेन मुहुः पुनः पुनः कुतूहलेन कौतुकेन कुहूरितिरवं शब्दं बिडम्ब्यानुकृत्य प्रकर्षेण कोपितो मधुरवचनोपि पिक इव । तथा तेन प्रकारेण प्रस्थापितो, यथा प्रियवचनोऽपि परुषवचनं ब्रूते स्म । अवज्ञया प्रस्थापित इत्यर्थ इति वा योजना । 'तया' इति वा पाठः । बालेन विडम्बितः पिकः कुपितः सन् परुषं रटतीति जातिः। 'सर्ज अर्जने' इत्यतः क्तः। स चोपसर्गवशात्प्रेषणा[१]र्थः॥

  अहो मनस्त्वामनु तेपि तन्वते त्वमप्यमीभ्यो विमुखीति कौतुकम् ।

  क्व वा निधिर्निर्धनमेति किंच तं स वाक्क्वाटं घटयन्निरस्यति॥३९॥

 अहो इति ॥ हे भैमि, अत्युत्तमाः तेऽपि देवा अपि त्वामनु मनः तन्वते । मानुषीं त्वामभिलष्यन्ति । अहो आश्चर्यम् । मानुष्यतिहीना त्वमपि उत्तमेभ्योप्यमीभ्यो देवेभ्यो विमुखी पराङ्मुखीति चाश्चर्यम् । अहो कौतुकम्, महदाश्चर्यमिति चोभयत्र योजनीयम् । उत्तमो हीनां नाभिलष्यतीति हीना तत्र नानुरज्यत इति युक्तम् । 'उत्तमे कामयमानेऽपि हीना तं न कामयते' इति कुत्रचिन्न दृष्टचरमिति महदाश्चर्यम् । उत्तमाय हि सर्वोऽपि स्पृहयतीति भावः । एतदेव परुषं वचनम् । दृष्टान्तमाह-निधिः महापद्मादिः निर्धनं दरिद्र क्व वा कुतोऽपि देवादायाति । किंच अन्यच्च स दरिद्रः प्रतिपेधकत्वाद्वाग्रूपं कवाटं घटयन् मत्समीपे त्वया नागन्तव्यमिति विशेषवचनं ब्रुवन् तं निधिं निराकरोति । तादृगेतदित्यर्थः । निधिर्निर्धनमेति स च वाक्कवाट घटयंस्तं निरस्थतीति क्व वा कुत्र वा । दृष्टमित्यर्थात् । अपितु कुत्रचिन्नेति वा । 'स वा कवाटम्' इति वा पाठः । निर्धनस्य निधिनिराकरणं यथाऽनुचितम् , तथा दिगीशानां त्वय्यनुराग एवानुचितः, कृतेऽप्यनुरागे त्वं तत्र नानुरज्यस इति महदनुचितमिति भाव इति वा[२]

  सहाखिलस्त्रीषु वहेऽवहेलया महेन्द्ररागाङ्गुरुमादरं त्वयि ।

  त्वमीदृशि श्रेयसि संमुखेपि तं पराङ्मुखी चन्द्रमुखि न्यवीवृतः ॥ ४० ॥

 सहेति ॥ हे चन्द्रमुखि, महेन्द्रस्य त्वय्यनुरागाद्धेतोः अखिलस्त्रीष्विन्द्राणीप्रभृतिषु अवहेलयावज्ञया सह त्वयि यं गुरुमादरं संमानं वहे धारये । इन्द्रस्य त्वय्यनुरागात्, त्वदन्यासु चाननुरागात्त्वदन्या कापि धन्या नास्तीति त्वामेव बहुं मन्ये इति भावः । ईदशि इन्द्रस्वाराज्यप्राप्तिलक्षणे संमुखे त्वामनु स्वयमागच्छत्यपि श्रेयसि कल्याणे विषये पराङ्मुखी तदनङ्गीकुर्वाणा त्वं तं ममादरं न्यवीवृतः व्यनाशय इत्यर्थः । त्वत्सदृशी कापि दुर्मतिर्नास्तीत्यर्थः । न्यवीवृतः, ण्यन्ताल्लुङि चङ्[३]


  1. 'अत्र छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र हेतुरलंकारः' इति 'जीवातुः।
  3. 'अत्र काव्यलिङ्गसहोक्तिरलंकारः' इति साहित्यविद्याधरी।