पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७१
नवमः सर्गः।

 हरिमिति ॥ हे भैमि, त्वं हरिमिन्द्रं परित्यज्य नलनामकं राजानं नलाख्यतृणविशेषं व अभिलाषुकाभिलाषिणी तथा विदुपिब्रुवा आत्मानं विदुषीं पण्डितां ब्रुवाणा सती कथं वा न लज्जसे । अपितु त्वया लज्जितव्यम् । महेन्द्रं त्यक्त्वा तृणतुल्यं नरं प्रियं वाञ्छसि अहं शात्रीति च ब्रूषे एतन्महच्चित्रम् । त्वादृशी दुर्बुद्धिर्निर्लज्जा च क्वापि नास्तीत्यर्थः। भोः करभोरु करस्य कनिष्ठामणिबन्धमध्यदेशवदनुवृत्तौ कोमलौ ऊरू यस्या एवंविधे भैमि, इति पूर्वार्धोक्तात्कारणात् अहं त्वां उपेक्षितेक्षोस्त्यक्तस्वादुरसेक्षोः शमीरतास्कटुरसशमीकण्टकलम्पटात् करभादुष्ट्रादपि उरुमुत्कृष्टां वदे ज्ञानपूर्वे कथयामि । उष्ट्रस्यापि कदाचित्तारतम्यज्ञानं भविष्यतीत्यपि संभाव्यतेऽपि । तव तु न कदाचित् । तस्मादपि त्वं मूर्खतरेत्यर्थः । इक्षुशम्योर्यावदन्तरं, तावदिन्द्रनलयोरिति जानीहीति भावः । अयमेवात्राभिप्रायो ज्ञातव्यः । न तु करभादुरुः-करभोरुरिति । अस्मिन्नर्थे 'हृस्वस्य गुणः' इति गुणप्राप्तेः करभोरो इति स्यात् । इति शब्दस्यानन्वयापत्तेश्च । तस्मात्पूर्वार्धार्थपरामर्शी इतिशब्दो हेत्वर्थो ज्ञातव्यः। 'संज्ञापूर्वको विधिरनित्यः' इति ह्रस्व(गुण)संज्ञामाश्रित्य पाक्षिकगुणाभावसमाधानं कृत्वा करभोरु इति संवुद्ध्या ज्ञानपूर्वे कथयामीति वा । 'मनुष्यजातेर्विवक्षाविवक्षे' इति वामनाचार्यवचनात् करभादुरुः करभोरुरिति मनुष्यजातिविवक्षया 'ऊङुतः' इत्यूङ् । तस्य नदीत्वात् 'अभ्वार्थ-' इति ह्रस्वे ह्रस्वविधिसामर्थ्याद्रणाभावे च साधूकृतस्य करभोरुपदस्य पूर्वव्याख्याने योजना कार्येति वा । कं सुखं राति ददाति करा। करा भा ययोस्तौ करभौ दर्शनमात्रेण यूनोर्मदनाद्वैतानन्दोदधौ निमज्जयन्तौ ऊरू यस्या इति व्युत्पत्त्या त्वय्येतावन्तं कालं करभोरु इति प्रातिपदिकम्, त्वां इदानीं करभादुष्ट्रादुरुं वदे इति वा । नलाभिलाषुका 'लषपत-' इत्युकञि 'गम्यादीनामुपसंख्यानम्' इति समासः। विदुषी इति ङीपः पचाद्यजन्ते ब्रुवशब्दे परे 'घरूप-' इति हृस्वः । पचादिषु ब्रुव इति पाठसामर्थ्यादेव च वचिगुणौ न भवतः । करभादुरुः इति योगविभागात्समासः । वदे 'भासनोपसंभाषा-' इति शाने तङ्॥

  विहाय हा सर्वसुपर्वनायकं त्वया[१] धृतः किंनरसाधिमभ्रमः ।

  मुखं विमुच्य श्वसितस्य धारया वृथैव नासापथधावनश्रमः॥४४॥

 विहायेति ॥ हे भैमि, त्वया सर्वे सुपर्वाणो देवाः, तेषां नायकं स्वामिनमिन्द्रं विहाय नरे मनुष्ये साधिमभ्रमः साधुत्वविषयः साधुत्वलक्षणो वा भ्रमः। अथ च नले साधिमभ्रमः किंधृतः हा कष्टम् । अनुचितमेतत् । उक्तमर्थे लोकोक्त्याह-श्वसितस्य श्वासानिलस्य धारया परम्परया मुखं विमुच्य मुखमार्गे विहाय सुखरूपानायासगमनोपायभूतं मुखं पिधाय नासापथेन नासिकामार्गेण यद् धावनं शीघ्रं गमनं तज्जनितः श्रमः क्लेशो वृथैव यथा धृतः तथा त्वयेत्यर्थः । अथ च इन्द्रं विहाय तदपेक्षया हीनस्य किंनरस्य देवयोनिविशेषस्य इन्द्रापेक्षया साधिमभ्रमो वृथा । अथ च रलयोरभेदात् कुत्सितो नरो मनुष्यो नलश्च तस्मिन् इति । 'वृथा धृतः' इत्यपि पाठः । तस्मादेनं भ्रमं परित्यज्य महेन्द्रो वरणीय इति भावः । साधुः पृथ्वा[२]दिः ॥


  1. 'त्वयादृतः' इति जीवातुसंमतः पाठः ।
  2. 'अत्र छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी । दृष्टान्तालंकारः' इति जीवातुः