पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७७
नवमः सर्गः।

भावः । 'स्मरोत्सवैः' इति पाठे स्मरस्य उत्सवरूपैः कामसंवन्धिभिरुत्सवैश्चुम्यनादिभिः कृत्वा अजातविच्छेदलवैश्चुम्वनादिभिर्निरन्तरैरित्यर्थः । नयस्वेति ञित्त्वात्कभिप्राये क्रियाफले तङ् । 'नय' इति वा[१]

 वरुणवरणे कारणमाह-

  शिरीषमृद्वी वरुणं किमीहसे पयःप्रकृत्या मृदुवर्गवासवम् ।

  विहाय सर्वान्वृणुते स्म किं न सा निशापि शीतांशुमनेन हेतुना ॥ ५८ ॥

 शिरीषेति ॥ शिरीषमृद्वी शिरीषपुष्पवत्कोमलाङ्गी त्वं वरुणमीहसे इच्छसि किम् । प्रायेणैवं संभावयामि । यतः-किंभूतम्-पयःप्रकृत्या उदकस्वभावेन, पयोलक्षणया प्रकृत्या उपादानकारणेन वा मृदुवर्गस्य मृदुवस्तुसङ्घस्य वासवम् । किंचित्पार्थिवावयवसहितस्याप्यशरीरस्य वरुणलोके विद्यमानत्वान्मृदुतममित्यर्थः । त्वमपि मृद्वी, सोपि मृदुरिति उभयोर्योग्यत्वम् । दृष्टान्तेनैतदेवोपपादयति-सा अतिशीतातिमृद्वी निशा अप्यनेन मृदुतरत्वेनैव हेतुना सर्वान्देवान् विहाय शीतांशु चन्द्रं किं न वृणुतेस्म आपितु वव्रे । योग्यत्वादित्यर्थः । हेतुना ‘सर्वनाम्नस्तृतीया च' इति तृतीया[२]

  असेवि यस्त्यक्तदिवा दिवानिशं श्रियः प्रियेणानणुरामणीयकः ।

  सहामुना तत्र पयःपयोनिधौ कृशोदरि क्रीड यथामनोरथम् ॥ ५९ ॥

 असेवीति ॥ त्यक्ता द्यौः स्वर्गो येन श्रियः प्रियेण नारायणेन अनणु महद् रामणीयकं यस्यैवंभूतो यः क्षीरोदो दिवानिशं रात्रिंदिवमसेवि । हे कृशोदरि, त्वं तत्र पयसो दुग्धस्य पयोनिधौ तत्पतित्वादमुना सह सार्धे यथामनोरथं स्वेच्छया क्रीड । श्रीसहितो विष्णुर्यथा तत्र क्रीडति तथा त्वमप्यनेन सहेत्यर्थः । दिवानिशम्, 'कालाध्वनोः' इति द्वितीया । यथामनोरथम्, 'यथासादृश्ये' इति [३]समासः ॥

  इति स्फुटं तद्वचसस्तयादरात्सुरस्पृहारोपविडम्बनादपि ।

  कराङ्कसुप्तैककपोलकर्णया श्रुतं च तभ्दाषितमश्ऱुतं च तत् ॥६० ॥

 इतीति ॥ कराङ्के हस्तक्रोडे सुप्तं स्थितमेकं कपोलकर्णे यस्या एवंविधया तया तत् तस्य दूतस्य इति पूर्वोक्तं भाषितं श्रुतं चाश्रुतं च । इन्द्रियपाटवाच्छ्रुतम्, अनङ्गीकारान्न श्रुतमिति भावः । स्फुटमुत्प्रेक्षायाम्। श्रवणे हेतुः-तस्य नलाकारस्य दूतस्य[४] आदराच्छ्रुतम् । अश्ऱुवणे हेतुः-सुरेषु इन्द्रादिषु स्पृहारोपोऽभिलाषारोपः, तद्रूपाद्विडम्बनादृषणादश्रुतम् । पतिव्रताया मम अन्याभिलाषारोपवचनं दुष्टमिति नाकर्णितमि[५]त्यर्थः ॥


  1. 'अत्रोपमालंकारः' इति साहित्यविद्याधरी
  2. 'अत्रोभयन्यासोलंकारः' वदुक्तं रुद्रटेसत्सामान्यावर्थौ स्फुटमुपमाया स्वरूपतोपेतौ । निर्दिश्येते यस्मिन्नुभयन्यासः स विज्ञेयः' इति साहित्यविद्याधरी । ‘दृष्टान्तालंकारः' इति जीवातुः
  3. 'अत्र छेकानुप्रासावसरावलंकारौ । यदुक्तम् --- 'अर्थान्तरमुत्कृष्टं सरसं यदि चोपलक्षणं क्रियते । अर्थस्य तदभिधानप्रसङ्गतो यत्र सोऽवसरः ॥' इति' इति साहित्यविद्याधरी।
  4. 'दूतस्य वचसो वचनस्य आदरात्' इति सुखावबोधासाहित्यविद्याधर्यौ
  5. 'अत्रादरविडम्बनयोः श्रुताश्रुताभ्यां हेतुहेतुमद्भावेन यथासंख्यसंबन्धाद्यथासंख्यालंकारः' इति जीवातुः