चिरादनध्यायमवामुखी मुखे ततः स्म सा वासयते दमस्वसा।
कृतायतश्वासविमोक्षणाथ तं क्षणाइभाषे करुणं विचक्षणा ॥६१॥
चिरादिति ॥ ततोनन्तरं सचिन्तत्वादवाड्मुखी विचक्षणा चतुरा सा दमस्वसा भैमी मुखे चिरकालमनध्यायं वचनाभावं वासयते स्म । मुहूर्ते तूष्णीं बभूवेत्यर्थः । अथ पश्चात्कृतमायतं दीर्घे श्वासतिमोक्षणं यथा एवंभूता सती क्षणान्मुहूर्तादनन्तरं करुणं करुणरसप्रधानं वचनं, करुणं यथा तथा वा वभाषे । अकरुणमिति वा । निष्ठुरमुवाचेत्यर्थः । 'अन्तकदूततोचितम्' इत्यादेर्वक्ष्यमाणत्वात् । अनादरसूचकमौनावाड्मुखत्वदीर्घनिश्वासकरणात् विचक्षणेति साभिप्रायम् । प्रचण्डवायौ वाति सति तात्कालिकोऽनध्यायः क्रियते, क्षणानन्तरं पुनः पठ्यते तद्वदुवाचेत्यर्थः । सचिन्तस्य जातिः स्वभावो वा । 'अध्यायन्याय-' इत्यादिना अध्यायशब्दः साधुः । वासयते "णिचश्च' इति तङू । 'अणावकर्मकात्-' इति न परस्मैपदम्, अणौ चित्तवत्कर्तृकत्वाभावात् अनध्यायस्य कर्तृत्वात् । विचक्षणा 'अनुदात्तेतश्च हलादेः' इति युच्[१] ॥
विभिन्दतादुष्कृतिनीं मम श्रुतिं दिगिन्द्रदुर्वाचिकसूचिसंचयैः ।
प्रयातजीवामिव मां प्रति स्फुटं कृतं त्वयाप्यन्तकदूततोचितम्॥६२॥
विभिन्दतेति ॥ त्वयापि अतिसुन्दरेण नलतुल्याकारेणापि सता मां प्रति स्फुटमन्तकदूततोचितं यमदूतत्वोचितं कर्म कृतम् । किंभूतेन-आरोपितदिक्पालाभिलाषवाणीसमाकर्णनाइष्कृतिनीं दुष्कर्मकारिणीं मम श्रुतिं दिगिन्द्रा इन्द्रादिदिक्पालास्तेषां दुर्चाचिकानि दुष्टसंदेशवचनानि तद्रूपैः सूचिसंचयैः सूचिसङ्घैः कृत्वा विभिन्दता पीडयता। अत एव-प्रयातजीवामिव गतप्राणामिव । मृतं पापिनं कर्णे सर्वत्र चाङ्गे सूचिसङ्घैर्यमदूतो यथा निष्ठुरं पीडयति । चतुर्णामपि दूतत्वाद्यमदूत्योचितमेव त्वया कृतमित्यर्थः। अतिसुन्दरस्य विशेषतो नलतुल्याकारस्य सौम्याकारस्य मां प्रत्यतिपीडाकारित्वमयुक्तमिति त्वयापीत्यपिना सूचितम् । अन्योऽपि बौद्धादिरदुष्कृतिनीं दोषलेशरहितां श्रेयोरूपां श्रुति वेदं दुष्टवचनैर्दूषयति । प्रयातो यातुमारब्धः, प्रशब्द आदिकर्मणि, तत्रैव निष्ठा[२] ॥
उक्तमेवार्थे सोपस्करमाह-
त्वदास्यनिर्यन्मदलीकदुर्यशो मषीमयं सल्लिपिरूपभागिव ।
श्रुतिं ममाविश्य भवदुरक्षरं सृजत्यदः कीटवदुत्कटा रुजः ॥६३॥
त्वदास्येति ॥ अदः भव्रद्दुक्षरं त्वयोक्तं दुष्टमक्षरं मम श्रुतिमाविश्य कीटवदुत्कटा