पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४००
नैषधीयचरिते

कृतः। कार्यस्य साधितत्वात् । मया पुनः द्विषां हसैर्हास्यैः सितीकृतः। तैस्तु यशो लब्धम् । मया इन्द्रदूत्यार्थ गतो नलः स्वीयमेव दूत्यं कृतवानित्यादि वैरिहास्यरूपमयशो लब्धम्। 'शितीकृतः' इति पाठे श्वेतीकृतः, श्यामीकृतश्चेति व्याख्ये[१]यम् ॥

  धियात्मनस्तावदचारु नाचरं परस्तु तवेद स यद्वदिष्यति ।

  जनावनायोद्यमिनं जनार्दनं क्षये जगज्जीवपिबं शिवं वदन् ॥ १२४ ॥

 धियेति ॥ अहमात्मनो धिया बुद्ध्या तावदचारु इन्द्रादिप्रतिकूलं नाचरं न कृतवान् । किंतु उन्मादादेव स्वनाम कथितमित्यर्थः । स प्रसिद्धः परोऽन्यो दुर्जनो वा तु पुनः यद्वदिष्यति तदहं वेद । दुर्जनो हि यथावृत्तं न वदति किंतु विपरीतमेव वदति, इति जाने इत्यर्थः । तदेव विशेषणेनाह किंभूतः-परः-जनानामवनाय पालनायोद्यमिनं कृतोद्यमं जनानर्दयति पीडयतीत्येवंशीलं वदन् । तथा-क्षये प्रलये जगज्जीवपिबं जगत्प्राणहरं महादेवं शिवं मङ्गलं वदन् । अनर्गलो लोक इत्यर्थः । लोकोक्तनिवारणे कश्चन प्रतीकारो नास्तीति भावः । नन्द्यादित्वाजनार्दनः । जीवपिबम् , 'पाघ्रा-'इत्यादिना[२] शः॥

  स्फुटत्यदः किं हृदयं त्रपाभराद्यदस्य शुद्धिर्विबुधैर्विबुध्यते ।

  विदन्तु ते तत्त्वमिदं तु दन्तुरं जनानने कः करमर्पयिष्यति ॥ १२५ ॥

 स्फुटतीति ॥ आत्मप्रकाशनादकृतकार्यत्वाच्च यस्त्रपाभरो लज्जाबाहुल्यं तस्मात् अदो हृदयं किमर्थं स्फुटति । यद्यस्मात् विबुधैर्देवैरस्य हृदयस्य शुद्धिः विबुध्यतां ज्ञायताम् । तु पुनः ते विबुधा इदं दन्तुरं विषमं तत्त्वं मया बुद्धिपूर्वकं कृतं, अबुद्धिपूर्वकं वेति विन्दतु जानन्तु । लोका जानन्तु वा मा जानन्तु । अत्र लौकिकमाभाणकमाह-जनानने कः करं हस्तमर्पयिष्यति त्वयैवं न वक्तव्यमिति मुखहस्तदानेन लोकं प्रतिषेद्धं कः शक्नोति अपितु न कोपि । लोको यत्किचिद्वदतु नामेति भावः । हृदयस्फोटनाभावेऽपि ते देवास्तत्त्वं यथार्थ जानन्तु । अन्यदपि संदिग्धं प्रमेयं पण्डितैः परीक्ष्य तत्त्वतो निर्णीयते, न तु सामान्य[३]लोकैः॥

  मम श्रमश्चेतनयानया फली बलीयसालोपि च सैव वेधसा।

  न वस्तु दैवस्वरसाद्विनश्वरं सुरेश्वरोऽपि प्रतिकर्तुमीश्वरः ॥१२६॥

 ममेति ॥ अनया चेतनया दूतोऽहमिति प्रतिपत्त्या कृत्वा मम श्रमः इत्थंलक्षणः फली सफलो जातः स्यात् । बलीयसा वेधसा च देवेन सैव चेतना अलोपि नाशिता । दैववशाद्भान्त्यात्मकथनाच्छ्रमो व्यर्थ एव जात इत्यर्थः । चेतनारक्षणे त्वया यत्नः किमिति न कृत इत्यत आह-स्वश्चासौ रसश्च स्वरसः स्वेच्छा दैवस्य स्वरसात्स्वेच्छया विनश्वरं विनाशितं वस्तु प्रतिकर्तु चिकित्सितुं सुरेश्वरोऽपि शक्रोऽपि ईश्वरो न समर्थों


  1. 'अत्रानुप्रासव्यतिरेकालंकारः' इति साहित्यविद्याधरी
  2. अत्र छैकानुप्रासो हेतुश्च' इति साहित्यविद्याधरी
  3. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी