सभेति ॥ सा स्वयवंरसभा नलश्रियो यमकैः प्रतिनिधिभिः यमाद्यैश्चतुर्भिः नलं विना द्यौरिव अभूत् । किंभूता द्यौः-पारिजाते भामायाः सत्यभामाया अङ्गणस्य प्राघुणकेऽतिथौ सति चतुर्भिर्मन्दार-संतान-कल्पवृक्ष-हरिचन्दन-संञ्जकैदैवद्रुमैरुपलक्षिता । किंभूतैरुभयैः-धृतदिव्यरत्नैर्घृतदिव्यरत्नाभरणैः मूलादारश्याग्रपर्यन्तं धृतमुक्तादिदिव्यरत्नैश्च । पारिजातं विना मन्दारादिषु सत्स्वपि यथा द्यैर्न शोभते, तथा नलरूप-धारिष्विन्द्रादिषु सत्स्वपि मुख्यं नलं विना सभा न शुशुभे । इन्द्रादयः सभायामाग-ताः, नलो नागत इति [१]भावः ॥
तत्रागमद्वासुकिरीशभूषाभस्मोपदेहस्फुटगौरदेहः । |
तत्रेति ॥ वासुकिः तत्र स्वयंवरसभायामगमत् । किंभूतः-ईशस्य भूपार्थं भस्मैव उपदेहोऽङ्गरागः, तेन स्फुटं प्रकटं गौर उज्ज्वलो देहो यस्य । तथा-फणीन्द्रवृन्दैः कर्को-टकादिसर्पश्रेष्ठसमूहैः प्रणिगद्यमान उच्यमानः प्रसीद, जीव इत्यादिशब्दो यत्र ईदृशोऽनुजीविनां सेवकानां वादः कोलाहलो यस्य। 'प्राग्भूय'-इत्यनेन वासुकैः पातालाञ्चलनमात्रमेवोक्तं, इदानीं तु सभागमनमिति न पौनरुक्त्यम् । 'ईशवासात्' इति पाठे ईश्वरशरीरे योगपट्टादिभवननिमित्तवसतेर्हे[२]तोः॥
पान्तरेभ्यः पुटभेदनं तत्क्षणादवापे सुरभूमिभूपैः |
द्वीपेति ॥ सुरभूमिषु देवभूभिषु द्वीपान्तरलक्षणासु ये भूपा राजानस्तैर्द्वीपान्तरेभ्यः पक्षादिभ्यः सकाशात्तत् पुटभेदनं नगरं कुण्डिनाख्यं क्षणाज्झटिति अवापे प्राप्तम् । क्षणमात्रागमने हेतुमाह-केन यूना तत्कालं तस्मिन् भैमीस्वयंवरसमये स्मरेपुपक्षानिलतूललीला कामबाणपक्षवातसंबन्धात्कार्पासविलासो नालम्बि नाङ्गीकृतः, अपितु सर्वेणापि तूललीलाङ्गीकृता । वातेरितस्तूलो यथा दूराज्झटित्यायाति तथा तेऽपि कामपीडिताः सन्तः सर्वेऽपि झटित्यनायासेनायाता इति भावः[३] ॥
रम्येषु हर्म्येषु निवेशनेन सपर्यया कुण्डिननाकनाथः । |
रम्येष्विति ॥ स कुण्डिन तस्य नाथो भीमो रम्येषु हर्म्ये नेन, तथा-सपर्ययातिथ आदरेण, नम्रतया च,
राजचक्रमुपाचरदतू[४]