पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२५
दशमः सर्गः

इति पाठे शृङ्गारविच्छित्तिषु निपुणैरित्यर्थः । 'अनुभावः प्रभावे स्यान्निश्चये भावसूचने' इति विश्वः । 'मण्डपोऽस्त्री जनाश्रयः' इत्यम[१]रः॥

भूषाभिरुच्चैरपि संस्कृते यं वीक्ष्याकृत प्राकृतबुद्धिमेव ।
प्रसूनबाणे विबुधाधिनाथस्तेनाथ साशोभि सभा नलेन ॥ ३८ ॥

 भूषाभिरिति ॥ अथ तेन नलेन सा सभाशोभि । स कः-विवुधाधिनाथ इन्द्रः य नलं वीक्ष्य भूषाभिरलंकारैः उच्चैरतितरां संस्कृतेऽपि मण्डितेऽपि प्रसूनवाणे कामे विषये प्राकृतबुद्धिमेव नीचबुद्धिमेवाकृत । उच्चैः प्राकृतबुद्धिमिति वा । सालंकृतो मदनोऽप्येतत्सदृशो नास्ति, किमन्य इति । नलोऽपि तत्रागत इति भावः । पण्डितोऽपि संस्कृते प्राकृतवुद्धिमकृतेति विरोधाभासः । 'प्राकृतश्च पृथग्जनः' इत्यम[२]रः ॥

धृताङ्गरागे कलितद्युशोभां तस्मिन्सभां चुम्बति राजचन्द्रे ।
गता बताक्षणोर्विषयं विहाय क्व क्षत्रनक्षत्रकुलस्य कान्तिः ॥ ३९ ॥

 धृतेति ॥ धृताङ्गरागे कुङ्कुमचन्दनकृताङ्गानुलेपने तस्मिन् राजचन्द्रे नले कलिता हृता धुशोभा स्वर्गशोभा यया एवंविधां सभां चुम्बति प्राप्ते सति क्षत्राण्येव नक्षत्राणि तेषां कुलस्य समूहस्य कान्तिः अक्ष्णोर्विषयं गोचरं विलङ्घ्य क्व कुत्र गता । बत खेदे । तन्न ज्ञायत इत्यर्थः । न क्षत्राणीति नशब्देन समासः । क्षत्राणि च नक्षत्राणि च । ये क्षत्रियाः, ये च न क्षत्रियाः क्षत्रियव्यतिरिक्ताश्च तेषां कुलमिति वा । उदयसमये आरक्तवर्णे चन्द्रे समीपस्थानि नक्षत्राणि यथा निःश्रीकाणि भवन्ति, तथा नलसमीपे तेऽपीत्यर्थः । अतिसुन्दरं नलं दृष्ट्वा भैमी एनमेव वरिष्यतीति निश्चित्य सर्वेऽपि निःश्रीका जाता इति भावः । कलिता व्याप्ता द्यौर्यया एवंविधा शोभा रत्नादिदीप्तिर्यस्या इति वा[३]

द्राग्दृष्टयः क्षोणिभुजाममुष्मिन्नाश्चर्यपर्युत्सुकिता निपेतुः ।
अनन्तरं दन्तुरितभ्रुवां तु नितान्तमीर्ष्याकलुषा दृगन्ताः ॥ ४० ॥

 द्रागिति ॥ अतिसुन्दरत्वादाश्चर्येण पर्युत्सुकिता उत्कण्ठिताः क्षोणिभुजां राज्ञां दृष्टयः अमुष्मिन्नले द्राग्झटिति निपेतुः । प्रथमं दर्शनमात्रेणोत्कण्ठिताः सत्यः तस्मिन्नेव लग्नाः स्थिता इत्यर्थः । अनन्तरं तु क्रोधवशाहन्तुरितभ्रुवां कुटिलभ्रुवां तेषां दृगन्ता नेत्रप्रान्ता नितान्तमीर्ष्यया कलुषाः कषायिता निपेतुः । अतिसौन्दर्यादीाराहित्येन प्रथमं तं दृष्ट्वानन्तरं भैम्यस्मान्विहायैनं वरीष्यतीतीर्ष्यया तं ददृशुरिति भावः । क्रुद्धो हि पूर्णया दशा न पश्यति । अथवा-अनन्तरं राजभिरवलोकिते सति दन्तुरितभुवां


  1. 'अत्र छेकानुप्रासोऽलंकारः' इति साहित्यविद्याधरी ।
  2. 'अत्र छेकानुप्रासातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी ।
  3. 'अत्र छेकानुप्रासातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी ।