पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

त्वम् । किं कृत्वा-अन्यत्कथान्तरं कार्यान्तरं वा द्रुतं झटिति विधूय परित्यज्य । एता मयि स्नेहान्नलराजकथा एव कथयन्तीति ज्ञात्वेत्यर्थः। तन्व्या इति विरहव्यथया कृशत्वम् । अभूयत । भावे यगात्मनेपदे ॥

स्मरात्परासोरनिमेषलोचनाहिभेमि तद्भिन्नमुदाहरेति सा।
जनेन यूनः स्तुवता तदास्पदे निदर्शनं नैषधमभ्यषेचयत् ॥३६॥

 स्मरादिति ॥ सा भैमी इति पूर्वोक्तेन विन्यासेन यूनस्तरुणान्स्तुवता जनेन सख्यादिना प्रयोज्येन नैषधं नलं तदास्पदे मदनस्थाने निदर्शनं दृष्टान्तमभ्यषेचयत्स्थापयामास । इतीति किम्-हे जन, परासोः परागता असवः प्राणा यस्य तस्मान्मृतात्, अत एवानिमेषलोचनान्निमेषरहितनेत्रात्मरात्कामादहं बिभेमि, तत्तस्माद्भिन्नमन्यं दृष्टान्तमुदाहर वद इति तेन जनेन पृष्टे सति नलं दृष्टान्तेन स्थापयामास । असौ राजा कामोपम इति जनो यं कंचन स्तौति तदा भैम्याज्ञया काममुपमानं त्यक्त्वा नलमुपमानं करोतीत्यर्थः । अन्यस्योपमानस्याभावान्नलमेव दृष्टान्तं जनो ददातीत्यर्थः । तस्मात्स्मराद्भिन्नमित्येकं पदं वा । देवत्वादनिमेषत्वं मृतत्वेनोत्प्रेक्षितम् । मृतस्य राजादेः स्थानेऽन्योऽभिषिच्यते । स्मरादिति 'भीत्रा-' इत्यपादानम् । आस्पदे इति 'आस्पदं प्रतिष्ठायाम्' इति साधुः । नैषधमिति निषधानामयमिति संबन्धमात्रेऽण् | प्रकरणादिना स्वस्वामिभ्गवाधिगतिः । निषधानां राजा इत्यर्थे तु जनपदलक्षणाञो बाधके नादित्वात् 'कुरुनादि-' इति ण्ये नैषध्यमिति स्यात् । अभ्यषेचयदित्यत्र 'प्राक्सिता-' इति षत्वम्

नलस्य पृष्टा निषधागता गुणान्मिषेण दूतड्विजबन्दिचारणाः ।
निपीय तत्कीर्तिकथामथानया चिराय तस्थे विमनायमानया ॥३७॥

नलस्येति ॥ अनया भैम्या निषधागता निषधदेशादागता दूतद्विजबन्दिचारणाः चारविप्रस्तुतिपाठका देशान्तरभ्रमणजीविनो नलस्य गुणान्सौन्दर्यादीन् । भवतां देशे को राजा कीदृग्गुणः कथं प्रजाः पालयतीति मिषेण व्याजेन पृष्टाः । अथ प्रश्नानन्तरं तत्कीर्तिकथां निपीय नलयशोवर्णनमाकर्ण्य अनया भैम्या चिराय विमनायमानयाहृष्टचित्तया दुर्मनायमानया तस्थे स्थितम् । ईदृग्गुणो राजा मया कथं लप्स्यते इति विमनस्कता । अकारप्रश्लेषेणाविमनायमानया जातम्, चिरकालमाकर्णयन्त्यैव स्थिरचित्तयावहितचित्तया जातमिति व्याख्येयम् । 'तत्कीर्तिसुधाम्' इति पाठः । चिराय निपीय इति वा संबन्धः । 'अकथितं च' इति द्विकर्मकत्वात्प्रच्छेरप्रधाने कर्मणि निष्ठा, तयाभिहितत्वान्न द्वितीया-चारणाः इति । 'गुणान्-' इति 'नलोका-' इति षष्ठीनिषेधाद्वितीया । तस्थे इति भावे तङ् । पक्षे निपीय तस्थे इत्यत्र मुखं व्यादाय स्वपितीतिवत्तुल्यकाल एव ल्यप् । विमना इवाचरति इति 'कर्तुः क्यङ् सलोपश्च', 'अकृत्सार्वधातुकयोर्दीर्घः' ङित्त्वाच्छानच्


१ 'अत्र गुणसंकीर्तनलक्षणा स्मरदशोक्ता' इति साहित्यविद्याधरी । 'अत्र रागातिशयोक्तिः' इति जीवातुः। २ 'अत्र चिन्ताव्यभिचारिभावस्योदयः । भावोदयालंकारः' इति साहित्यविद्याधरी ।