पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३७
दशमः सर्गः

  ब्रह्मार्थकर्मार्थकवेदभेदाद्द्विधा विधाय स्थितयात्मदेहम् ।

  चक्रे पराच्छादनचारु यस्या मीमांसया मांसलमूरुयुग्मम् ॥८०॥

 ब्रह्मेति ॥ब्रह्मैवार्थः, कमैवार्थः, प्रतिपाद्यं प्रयोजनं ययोवैदयोस्तयोभैद्द्वै विध्याद्ब्रह्मकाण्डकर्मकाण्डसंज्ञकवेदविभागाद्धेतोरात्मदेहं द्विधा विधाय निर्माय स्थितया मीमांसया यस्या देव्या ऊरुयुग्मं चक्रे कृतम्। किंभूतमात्मदेहम्--परेषां वैशेषिकबौद्धादीनामाच्छादनेन निराकरणेन चारु, तत्र वा चतुरम् । तथा-मांसलं विचारपरिपुष्टम् । अथ च उत्तमवस्त्रेण रमणीयं, परिपुष्टं च । उत्तरमीमांसया पूर्वमीमांस चोरुयुग्मं रचितामत्य[१]र्थः

  उद्देशपर्वण्यपि लक्षणेऽपि द्विधोदितैः षोडशभिः पदार्थैः ।

  आन्वीक्षिकीं यद्दशनद्विमालीं तां मुक्तिकामाकलितां प्रतीमः ॥८१॥

 उद्देशेति ॥ वयं यस्या दशनद्विमाली दन्तपक्तिद्वयीं तां प्रसिद्धामान्वीक्षिकीं तर्कविद्यां प्रतीमो जानीमहे । अनु पुनः पुनरीक्षणं प्रयोजनमस्याः सा आन्वीक्षिकी । कीदृशीम्-नामतः कथनमुद्देशः, तस्य पर्वण्यवसरेऽपि, समानासमानजातीयव्यवच्छेदो लक्षणं तस्मिन्नपि, द्विधा उद्देशतया लक्षणतया चोदितैनिर्दिष्टैः षोडशभिः पदार्थः प्रमाणादिभिर्निग्रहस्थानान्तैरुपलक्षिताम् । तथा-मुक्तिकामैः 'एतेषां तत्त्वज्ञानान्नि:श्रेयसाधिगमः' इत्युक्तत्वान्मुमुक्षुभिराकलितामभ्यस्ताम् । दन्तपतिद्वयी च पर्वण्युदितोत्तेजिता भवति । तथा-लक्षणेऽपि सामुद्रकशास्त्रेऽप्युदितोक्ता । द्विधोदितत्वेन द्वात्रिंशत्संख्याका भवति । दशनद्विमालीमाकलितां गुम्फितां मुक्तिकां प्रतीमः मौक्तिकान्येव जानीम इति वा । द्विरुक्तषोडशपदार्थैर्यस्या द्वात्रिंशद्दन्ता रचिता इति भावः। द्विमालीमिति टाबन्तस्त्रीत्वे 'द्विगोः' इति ङीप्[२]

  तर्का रदा यहदनस्य ता वादेऽस्य शक्तिः क्व तथाऽन्यथा तैः।

  पत्रं क दातुं गुणशालिपूगं क वादतः खण्डयितुं प्रभुत्वम् ॥८२॥

 तर्का इति ॥ 'यद्ययं निर्वह्निः स्यात्तर्हि निर्धूमोऽपि स्यात्' इत्यादयस्तर्का यद्वदनस्य रदा दन्तास्ता ऊह्याः। तैर्दन्तैः अन्यथा विना चेत्तर्का दन्ता नाभविष्यस्तर्हि अस्य मुखस्य वादे कथाविशेषे । अथ च भाषणे । तथा शक्तिः क्व । दन्तैविना वादः कर्तुं न शक्यते । तस्मात्तर्का एव रदास्ताः । 'कथमन्यथा' इति पाठो वा । अथ च वा च दश्च वादम् 'सो द्वन्द्वः-' इत्येकवद्भावः। वाकारदकारयोरुच्चारणे विषये दन्तैर्विना शक्तिः कथं स्यात् । वकारस्य दन्त्यौष्ट्यत्वात् । दकारस्य दन्त्यत्वादित्यर्थः । अन्यच्च-वादतो वादनिमित्तात्प्रातवादिने पत्रं प्रतिपत्रदातु तस्योपरि पत्रालम्बन कर्तुं प्रतिवादिनः प्रतिज्ञापत्रं दातुं खण्डयितुम् । अथ च-अदतो अक्षयतोऽस्य कटुरसत्वादिगुणशालि


  1. 'अत्र छेकानुप्रासोलंकारः' इति 'साहित्यविद्याधरी।
  2. ' अत्रोत्प्रेक्षाश्लेषालंकारः' इति साहित्यविद्याधरी।