पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४५
दशमः सर्गः।

निर्वचनपरिपाट्यां विषये कुण्ठितानां कतिपयानामेवाङ्गानां स्तुतिः कृता, अनन्तरं स्फूर्त्यभावाद्धतशक्तीनां तूष्णींभूतानां मेनकादीनामप्सरसां स्वयं स्वेन धृतां हृदः स्त्रीहृदयस्य मण्डनं भूषणीभूतां ह्रियं लज्जां प्रसादं लज्जारूपं प्रसादमर्पयन्तीं ददतीम् । अतिसौन्दर्यस्तुतिकरणाशक्तेरप्सरसोऽपि लज्जिता इति भावः। 'मध्ये उदरे विषये निरुक्तिक्रमकुण्ठितानां तद्वर्णयितुमशक्तानाम्' इति वा । अन्यापि भोगावलीपाठकानां स्वयं धृतमुत्तमहारादि हृदयमण्डनमर्पयति । प्रसादमण्डनशब्दावाश्लिष्टलिङ्गौ[१]’॥

  तारा रदानां वदनस्य चन्द्रं रुचा कचानां च नभो जयन्तीम् ।

  आकण्ठमक्ष्णोर्द्वितयं मधूनि महीभुजः कस्य न भोजयन्तीम ॥ १०६ ॥

 तारा इति ॥ तथा-रदानां रुचा ताराः, वदनस्य रुचा चन्द्रम् , कचानां रुचा नभः, जयन्तीमिति सर्वत्रान्वयः । कस्य महीभुजः अक्ष्णोर्द्वितयं नयनद्वयं आकण्ठमुपचारादतितरां मधूनि न भोजयन्तीम् । अपितु सर्वस्यापि पाययमानाम् । अतिसुन्दरतद्दर्शनेन राजनेत्राणाममृतेनेव तृप्तिर्जातेति भावः[२]

  अलंकृताङ्गाद्भुतकेवलाङ्गीं स्तवाधिकाध्यक्षनिवेद्यलक्ष्मीम् ।

  इमां विमानेन सभां विशन्तीं पपावपाङ्गैरथ राजराजिः ॥१०७॥

 अलंकृतेति ॥ तथा अलंकृतादप्यङ्गादवयवादद्भुतमाश्चर्यरूपं केवलं अनलंकृतमङ्गं यस्यास्ताम् । तथा-स्तवात्स्तुतेरधिका अध्यक्षनिवेद्या प्रत्यक्षदृश्या लक्ष्मीर्यस्यास्ताम् । स्तूयमानाया लक्ष्म्याः सकाशादनुभूयमाना लक्ष्मीरधिकेत्यर्थः । अथ विमानेन नरवाह्यचतुरन्त (स्र)यानेन स्वयंवरसभां विशन्तीमिमां भैमीं राजराजी राजपङ्किरपाङ्गैः कटाक्षै: पपौ सादरं पश्यति स्म[३] । कुलकम् ॥

  आसीदसौ तत्र न कोऽपि भूपस्तन्मूर्तिरूपोद्भवदद्भुतस्य ।

  उल्लेसुरङ्गानि मुदा न यस्य विनिद्ररोमाङ्कुरदन्तुराणि ॥ १०८ ॥

 आसीदिति ।। तस्या मूर्तिर्देहः तस्या रूपं सौन्दर्यं तद्विलोकनेनोद्भवज्जातमद्भुतमाश्चर्यं यस्य एवंभूतस्य यस्याङ्गानि नोल्लेसुः हर्षं न प्रापुः । असौ ईदृशः कोऽपि भूपः तत्र सभायां नासीत् । किंभूतान्यङ्गानि-मुदा अनुरागेण कृत्वा विनिद्रै: रोमाङ्कुरैः दन्तुराणि नतोन्नतानि । सर्वेऽपि तत्सौन्दर्यदर्शनात्साश्चर्याः सानुरागा जाता इति भा[४]वः

  अङ्गुष्ठमूर्ध्ना विनिपीडिताया मध्येन भागेन च मध्यमायाः ।

  आस्फोटि भैमीमवलोक्य तत्र न तर्जनी केन जनेन नाम॥१०९॥


  1. 'अत्र रूपकप्रतीपमानोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी
  2. ’'अत्र दीपकातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी । 'अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थहेतुकत्वात् काव्यलिङ्गम् । तच्च संसृष्टाभिस्ता-राद्युपमाभिः संकीर्यते । तस्य 'नभोजयन्तीम्' इति यमकेन संसृष्टिः' इति जीवातुः
  3. 'अत्र छेकानुप्रासा-तिशयोक्त्यलंकारः' इति साहित्यविद्याधरी
  4. 'अत्र भावोदयालंकारः' इति साहित्यविद्याधरी