पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६५
एकादशः सर्गः।

ह्रीति ॥ विमानवाहाः ह्रिया संकुचत्फणगणं फणवृन्दं यस्य तस्मादुरगप्रधानान्सर्पराजाद्वासुकेः विनीयापनीय तां राजसङ्घमनयन्त प्रापयामासुः । के कस्मात्कां कमिवइन्दुकिरणाः संध्यायां नमन्ति संकुचन्ति दलकुलानि पत्रसमूहा यस्य तस्मात्कमलाद्विनीय हासभासं विकसन्तीं दीप्तिं कह्लारं सौगन्धिकमिव ॥

देव्याभ्यधायि भव भीरु धृतावधाना
 भूमीभुजो भजत भीमभुवो निरीक्षाम् ।
आलोकितामपि पुनः पिबतां दृशैना-
 मिच्छा विगच्छति न वत्सरकोटिभिर्वः ॥ २४ ॥

 देव्येति ॥ सा भैमी देव्या अभ्यधायि वक्ष्यमाणमुक्ता । हे भीरु, चलन्फणदर्शनाद्भयशीले त्वं धृतावधाना सावधाना भव । भयं परित्यज्य राज्ञो विलोलयेत्यर्थः । हे भूमीभुजो राजानः, यूयं भीमभुवो भैम्याः निरीक्षा दर्शनं भजत भैमीं पश्यत । दृष्टायाः पुनदर्शनेन किमित्यत आह-आलोकितामप्येनां पुनर्दृशा पिबतां सादरं पश्यतां वो युष्माकमेतद्दर्शनेच्छा वत्सराणां वर्षाणां कोटिभिरपि न गच्छति न शाम्यति । अतः पुनर्यथेच्छं विलोकयेत्यर्थः । 'त्यजत' इति पाठे भैमीविलोकनं मा कृद्धम् । युष्मासु पश्यत्सु लज्जावशादियं युष्मान्न पश्येत् । तस्माल्लज्जां विहाय यथा पश्यति तथा कुरुतेत्यर्थः । वरणे संदेहाद्दर्शनमपि कथं त्याज्यमित्यत आलोकितामिति वा ॥

लोकेशकेशवशिवानपि यश्चकार
 शृङ्गारसान्तरभृशान्तरशान्तभावान् ।
पञ्चेन्द्रियाणि जगतामिषुपञ्चकेन
 संक्षोभयन्वितनुतां वितनुर्मदं वः ॥ २५ ॥

लोकेशेति ॥ यो वितनुः कामः लोकेशो ब्रह्मा, केशवः शिवश्च एतानपि त्रीन् शृङ्गारेण रसेन सान्तरो व्यवहितः भृशोऽतिशयित आन्तरो मानसः शान्तभावो विरक्तत्वं येषां तान्विरक्तानप्यनुरक्तांश्चकार स कामो वो युष्माकं मुदं वितनुतां विस्तारयतु । किं कुर्वन्-इषुपञ्चकेन जगतां चक्षुरादीनि पञ्चेन्द्रियाणि क्षोभयन्विकारं प्रापयन् । सृष्टिस्थितिप्रलयकारिणो देवेशानपि यः स्ववशांश्चकार तस्य भवद्वशीकरणे का प्रयास इति तदधीनाः सन्तः पुनः पुनर्यथेच्छमेनां विलोकयतेति भावः । सृष्ट्यादिक्रमेणाभ्यहितत्वात्पूर्वनिपातः। पञ्चकेन पञ्च परिमाणमस्य सङ्घस्येत्यर्थे 'संख्यायाः संज्ञासङ्घ-' इति कन् ॥

  पुष्पेषुणा ध्रुवममूनिषुवर्षजप्ति[१]-

   हुंकारमन्त्रबलभस्मितशान्तशक्तीन् ।


  1. 'जप्त' इति जीवातुसंमतः पाठः ।