पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
नैषधीयचरिते

कृतः। आकर्णित इत्यर्थः । आदरातिशयापूर्वत्वसूचनायातिथिपदम् । स्मरेणापि गुणः प्रत्यञ्चा स्वात्मशरासनाश्रयः स्वात्मनो यच्छरासनं धनुस्तदाश्रय आधारः स्थानं य- स्यैवंभूतोऽकारि । किंभूतेन-तस्य नलस्योच्चमुत्कृष्टं धैर्यं तस्य व्ययो नाशस्तस्मै संहितो धनुष्यारोपित इषुर्येन । यदैव भैमीगुणश्रवणं जातं तदैव तस्य मदनपीडा जातेति भावः । चस्तुल्यकालद्योतनार्थे वा । शोभनं दृढं यदात्मशरासनमिति वा1 ॥

अमुष्य धीरस्य जयाय साहसी तदा खलु ज्यां विशिखैः सनाथयन।
निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्यपि ४५

 अमुष्येति ॥ स्मरः त्रयाणां लोकानां समाहारस्त्रिलोकी तस्या विजयेनार्जितानि सं- पादितान्यपि यशांसि कीर्तीः संशये संदेहे निमजयामास । खलु संभावनायाम् । त्रै लोक्ये जितेऽपि यद्येनं जेतुं न शक्ष्यामि तर्ह्येकस्याजये सर्वापि कीर्तिर्गमिष्यतीति शक्ष्यामि न वेति संदेहः । किंभूतः स्मरः-तदा धीरस्यामुष्य नलस्य जयाय विशिखै. र्बाणैः ज्यां सनाथयन्सनाथां कुर्वन् । योजयन्नित्यर्थः । यतः साहसी हिताहितानपेक्षं यत्कर्म तत्साहसं तद्वान् । अविमृश्यकारीत्यर्थः । विशिखैरिति धीरस्यैकेन जेतुमशक्य- त्वाबहुत्वम् । त्रैलोक्यापेक्षयास्यातिधीरत्वमुक्तम् । 'विजयोर्जितानि' इति पाठः साधी- यान् । जयायेति 'तुमर्थात्-' इति चतुर्थी । निमज्जयामासेति मस्जेः सकारस्य 'झलां जश् झशि' इति यो दकारस्तस्य -भृज्जतीनाम्-' इति निर्देशाच्चुत्वम्2 ॥

अनेन भैमीं घटयिष्यतस्तथा विधेरवन्ध्येच्छतया व्यलासि तत् ।
अभेदि तत्ताद्दगनङ्गमार्गणैर्यदस्य पौष्पैरपि धैर्यकञ्चकम् ॥ ४६ ॥

 अनेनेति ॥ अस्य नलस्य तत्प्रसिद्धं तादृग्दुर्भेद्यमपि धैर्यमेव कञ्चुकं पौष्पैः पुष्परू- पैरप्यनङ्गमार्गणैः कामबाणैर्यधस्मादभेदि विदारितम् । तत्तस्मात् तथा वक्ष्यमाणभै- म्यभिलाषीन्द्रादिपरित्याजनप्रकारेण अनेन नलेन भैमीं घटयिष्यतः संगमयिष्यतो वि- धेर्ब्रह्मणोऽवन्ध्येच्छतया अवन्ध्या सफला इच्छा मनोरथो यस्य तस्य भावस्तत्ता सफ- लेच्छता तया व्यलासि विलसितमिति वितर्कः । तत्ताद्दगनङ्गमार्गणैरित्येकं वा पदम् । तैः पञ्चसंख्यतया प्रसिद्धैरल्पैस्तादृग्भिश्चातिमृदुश्लक्ष्णैः कामबाणैरिति । अङ्गरहित स्यापि पुष्परूपैर्वाणैधैर्यकञ्चुकस्यामूर्तस्यापि वस्तुनो यद्विदारणं तद्रह्मसफलेच्छाया एव विलास इति, यत्तदोः क्रियाविशेषणत्वं वा । असंभावितमपि विधीष्टं भवत्येवेति भावः । व्यलासीति भावे चिणू । अभेदीति कर्मणि कर्मकर्तरि वा चिणू । पौष्पैः। भेद- विवक्षायां संबन्धेऽण् । स्वार्थे वा3 ॥


१ 'अत्र स्वात्मशरासनाश्रय इति पुनरुक्ताभासोऽलंकारः । तुल्ययोगितालंकारोऽपि इति साहित्यवि- द्याधरी । 'अत्रौत्तरवाक्यार्थस्य पूर्ववाक्यहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः' इति जीवातुः । २ 'अत्र स्मरस्योक्तसंशयासंबन्धेऽपि तत्संबन्धकथनादतिशयोक्तिरलंकारः' इति जीवातुः। ३ 'कञ्चुकं भिनं मिति विरोधः, तस्य विधिविलासेनाभासीकरणाद्विरोधाभासोऽलंकारः । स च धैर्यकञ्चुकमिति रूपकोत्थापित इति तयोरङ्गाङ्गिभावेन संकरः' इति जीवातुः । 'अत्रानुमानविरोधावलंकारौं' इति साहित्यविद्याधरी ।