नद्ध इवास्ति । किंभूतः- भोगीन्द्रो वासुकिस्तेन कृतं वेष्टशतं तेन कुता या घृष्टयः घर्षणानि तत्कृताभिरश्मवलिच्छटाभिः शिलाभङ्गिपरम्पराभिः कृत्वा सोपानैरिव शोभि वपुः स्वरूपं यस्य । आरोहणाय इवेति वा । 'क्षुब्धस्वान्त-' इति क्षुब्धः साधुः। गात्रीति, 'अङ्गगात्र-' इति ङीष् ॥
मन्था नगः स भुजगप्रभुवेष्टघृष्टि- |
मन्था इति ॥ हे भैमि, स मन्था नगो मन्दरः त्वन्नेत्रयोः स्वस्य मन्दरस्य भरेण यन्त्रितान्याक्रान्तानि शीर्षाणि मस्तका यस्य स शेषो नागराजस्तस्य शेषेणावशिष्टेनाङ्गेन वेष्टिता तनुस्तस्य भ्रममातनोतु । किंभूतः- भुजगप्रभुर्वासुकिस्तस्य वेष्टेन घृष्टिर्घर्षणं तया कृतासु वलयाकारासु लेखासु वलयाकारेण वलन्त्यो धवलनिर्झरवारिधारा यस्मिन् । शेषस्य शुभ्रत्वाद्वारिधाराणां च रेखासु वलितत्वाद्भ्रान्तिः । शिरसि गाढं येनाक्रान्तः सर्पोऽवशिष्टेन तस्यैव जङ्घादि वेष्टयतीति सर्पजातिः । मन्थदोरकः शेष इति केचि[१]त् ॥
एतेन ते स्तनयुगेन सुरेभकुम्भौ |
एतेनेति ॥ हे सुन्दरि, स मन्दराद्रिः ते एतेन स्तनयुगेन कृत्वा सुरेभ ऐरावतस्तस्य कुम्भौ, तथा- ते पाणिद्वयेन दिविषद्द्रुमः कल्पवृक्षस्तस्य पल्लवानि, तथा- ते आस्येनेन्दुमपि स्वच्छन्दं यथेच्छं स्मरत्विति सर्वत्र संबन्धः । किंभूतमेतत्सर्वम्-नीरधिमन्थनोत्थं समुद्रमन्थनादुत्थितम् । समुद्रमथनसमेय एतत्सर्वं दृष्टमासीत् । इदानीं त्वां दृष्ट्वा तत्सर्वं स्मरतु । ऐरावतकुम्भसदृशौ ते स्तनौ, कल्पवृक्षपल्लवसदृशं ते पाणिद्वयं चन्द्रसदृशं ते मुखमिति भावः । अतः सुन्दरीति संबोधनम् । स्वच्छन्दमिति सर्वत्र संबन्धः। 'छन्दः पद्येऽभिलाषे च' इत्यमरः । 'नपुंसकमनपुंसकेन-' इत्येकवद्भावो नपुंसकत्वं च[२]॥