पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५२४
नंषधीयचरिते

स्थान् । एतत्तेजोपेक्षया सूर्यो हीनः । वह्न्यपेक्षया शलभतुल्य इत्यर्थः । तथा-अमुष्य यशः कथंचित्केनापि प्रकारेणोपार्जयितुमसमर्थेनेव विधिना ब्रह्मणा अतिमहान्क्षीराम्भोनिधिरपि तस्य एतदीययशसः प्रतिनिधिरनुकल्पः कृतः । कथंचित्कृत इति वा। यश एव यशःसदृशमिति वा । मुख्याभावे हि प्रतिनिधिरपि क्रियते । क्षीरादप्युज्वलमस्य यश इत्यर्थः । एवंविधः प्रतापवान्यशस्वी च कोपि नास्तीति भावः। मुख्यापेक्षया प्रतिनिधेर्न्यूनत्वादेकद्वीपव्यापिनः क्षीरोदादशेषद्वीपव्यापिन्याः कीर्तेराधिक्याच्च॥

यावत्पौलस्त्यवास्तूभवदुभयहरिल्लामलखात्तराय
सेतुमालेयशैलौ चरति नरपतेस्तावदेतस्य कीर्तिः ।
यावत्प्राक्प्रत्यगाशापरिवृढनगरारम्भणस्तम्भमुद्रा-
वद्री संध्यापताकारुचिरचितशिखाशोणशोभावुभौ च ॥४७॥

 यावदिति ॥ हे भैमि, सेतुप्रालेयशैलौ श्रीरघुनाथकृतः सेतुःप्रालेयशैलश्च हिमाचलः तौ यावत् यावन्तं देशमभिव्याप्य तिष्ठतः यावत्कालं तौ वर्तेते वा । एतस्य नरपतेः कीर्तिस्तावत्पर्यन्तं चरति भ्रमति । किंभूतौ शैलौ-पुलस्त्यगोत्रापत्ययो रावणकुबेरयोः अवास्तू अगृहभूमिभूते अपि वास्तू भवन्त्यौ गृहभूमित्वं प्राप्ते उभे द्वे अपि ये हरितौ दक्षिणोत्तरे दिशौ तयोः क्रमेण श्यामत्वाच्छुभ्रत्वाच्च रोमरेखा रोमावली उत्तरीयं पूर्वकायावरणवस्त्रं तद्रूपौ । समुद्रबन्धनशिलापरम्परा दक्षिणदिशो रोमस्थानीया । हिमाचलश्चोत्तरदिग्वस्त्रस्थानीयः । तथा-प्राक्च प्रत्यक्च आशे प्राचीप्रतीच्यौ दिशौ तयोः परिवृढौ स्वामिनी इन्द्रवरुणौ तयोः ये नगरे तयोर्यदारम्भणमारम्भस्तस्मिन् । स्तम्भयोरिव सुन्दरी मुद्रा आकारो ययोस्तौ उभावद्री उदयास्ताचलौ च यावन्तं देशमपि व्याप्य तिष्ठतः। पूर्ववत् । किंभूतावद्री-प्रातःसायंसंध्ये एव रक्तत्वा. त्पताकारुची ताभ्यां रचिता निर्मिता शिखायां शिखरे शोणा रक्ता शोभा ययोस्तौ । पौलस्त्य इति गोत्रापत्ये गर्गादित्वाद्यञ् । वास्तूभवदिति, 'च्वौ च' इति दीर्घः । उभौ अवयवौ ययोस्ते उभय्यौ ते च ते हरितौ चेति समासे पुंवद्भाव इति वा ॥

युद्ध्वा चाभिमुखं रणस्य चरणस्यैवादसीयस्य वा
बुद्ध्वाऽन्तः स्वपरान्तरं निपततामुन्मुच्य बाणावलीः ।
छिन्नं वावनतीभवन्निजभियः खिन्नं भरेणाथ वा
राज्ञानेन हठाद्विलोठितमभूद्भूमावरीणां शिरः ॥ ८४ ॥

 युद्ध्वेति ॥ अनेन राज्ञा अरीणां शिरः भूमौ हठाद्बलात्कारेण विलोठितं झटिति छेदात्स्फुरमणमभूत् । किंभूतानामरीणाम्-अदसीयस्यामुष्यायं अदसीयस्तस्य रणस्थाभिमुखं संमुखम् । प्रारम्भमभि लक्ष्यीकृत्य वा । बाणावलीः शरपङ्क्तीरुन्मुच्य मुक्त्वा युद्ध्वा वा निपतताम् । बाणपङ्क्तिवर्षणेन युद्धं कृत्वा रणभूमौ पततामिति यावत् । अथ