भुजेऽपसर्पत्यपि दक्षिणे गुणं सहेषुणादाय पुरःप्रसर्पिणे । |
भुज इति ॥ महाहवे महति रणसंमर्दे दक्षिणेऽपसव्यं । अध च -सरलेऽनुकूलेऽपि भुजे इषुणा सह गुणं मौवींमप्यादाय गृहीत्वा अपसर्पति कर्णपश्चाद्देशं गच्छति सति पुरःप्रसर्पिणे रिपुसंमुखयायिने दृढतरमुष्टयेऽस्य वामबाहवे सव्यभुजाय धनुः संमदादिव दृढतरत्वज्ञाताद्धर्षादिव परीरम्भमालिङ्गनं दित्सति दातुमिच्छति। दित्सतीवेति वा । अस्मिन्नपि गुणिनि विश्वासपात्रे सङ्ग्रामात्स्वजनमादाय पलायिते सति सङ्ग्रामं कर्तुं संमुखाय वामाय दुष्टायापि अयमेव साधुरिति मत्वा सुवंशजेन कनचिन्मध्यम्येनालिङ्गनं दीयते । दृढमुष्टिरतिशूरोऽयमित्यर्थः । सङ्ग्रामे कर्णान्तपर्यन्तमाकर्षणाद्धनुश्चक्रीकृत्य शरान्मुञ्चन्नेवास्त इति भावः । वामबाहवे, ददातियोगाच्चतुर्थी ॥
{{bold|
अस्योर्वीरमणस्य पार्वणविधुड्वैराज्यसज्जं यशः |
अस्येति ॥ अस्य उर्वीरमणस्य राज्ञो यत् यश एतादृशम् । कीदृशं यशः-पर्वाणि भवः पार्वणः पूर्णो विधुश्चन्द्रस्तस्य द्वैराज्ये द्वयो राज्ञोः कर्म तत्र सज्जं तत्परम् । पार्वणचन्द्रसदृशमित्यर्थः । तथा - सर्वेष्वङ्गेषूज्ज्वलस्य धवलस्य शर्वपर्वतस्य हरनिवासभूतकैलासस्य सितश्रीः श्वेतकान्तिस्तद्विषये यो गर्वस्तस्य निर्वासि निराकारकम् । कैलासादपि धवलतरम् । एवंभूतं यद्यशः। तत्कम्बुप्रतिबिम्बितं समुद्रशङ्खप्रतिबिम्ब: किमु । तथा-शरदि पर्जन्यराजिर्मेघपङ्किस्तस्याः श्रीः धवलिमशोभा तस्याः पर्यायः किमु । शब्दस्य शब्दान्तरेणोच्चारः पर्यायः । तथा दुग्धसिन्धो: क्षीरोदस्य पयसां दुग्धानां सर्वेण प्रकारेणानुवादः पुनरभिधानं किमु । चन्द्रादितुल्यमेतद्यश इति भावः । अन्योऽप्यधिष्ठितद्वैराज्यः प्रतिपक्षं निर[१]स्यति ॥ {{bold|
निस्त्रिंशत्रुटितारिवारणघटाकुम्भास्थिकूटावट- |
निस्त्रिंशेति ॥ अस्य नृपस्यायं दृश्यमानः करः कैः एवंभूत इव नोन्नीतस्तर्कित: । अपि तु सर्वैरप्येवमेव तर्कितः । कीदृशः करः-निस्त्रिंशेन खड्ड्रेन कृत्वा त्रुटितायाः
- ↑ 'उत्प्रेक्षात्रयस्य संसृष्टिः' इति जीवातुः