आत्मन्यस्य समुच्छ्रितीकृतगुणस्याहोतरामौचिती |
आत्मनीति ॥ आत्मनि स्वीये स्वल्पे समुच्छ्रितीकृतगुणस्य मलितसौ[१]न्दयादिसर्वगुणस्यास्य अहोतरामतिशयनौचितीयम् । यत् एष भूजानिर्भूपतिः द्विषां गात्रान्तराणां हृत्स्कन्धेतराणां वर्जनादवयवान्तरं परित्यज्येत्यर्थः । येन च हृदा भूयः पुनःपुनः अतितरां अहं अहंकारः क्रियते स्म । अहंकारिणा जातमित्यर्थः । यश्च स्कन्धः नानमत् नम्रो न भूतः तस्यैव हृत्स्कन्धस्यैव मर्माण्यतिमृदूनि जीवस्थानानि खण्डं खण्डमजनयञ्चकार नान्येषाम् । किंभूतः-समिति सङ्ग्रामे अलं कर्मणे अलंकर्माणः अरिमारणसमर्थः बाणव्रजो यस्य । अपराधी हि राज्ञा दण्ड्यः । हृत्स्कन्धस्यैवापराधो नान्येषां तस्यैव दण्डं कृतवान् नान्येषामित्यतितरामस्यौचितीत्यर्थः । अयं च सगुणः सदर्पाननम्रांश्च मारयति, शरणागतांस्तु रक्षीति भावः । 'कर्मक्षमोऽलंकर्मीणः' इत्यमरः । अलं कर्मणे, 'पर्यादयो ग्लानाद्यर्थे चतुर्थ्या' इति समासेऽलंकर्मशब्दात् 'अपडक्षाशितंग्वलंकर्म-' इति खः॥
दूरं गौरगुणैरहंकृतिभृतां जैत्राङ्ककारे चर- |
दूरमिति ॥ गौरगुणैर्धवलवर्णैः कृत्वा दूरं भृशं अहंकृतिभृतामहंकारवतां वस्तुनां जैत्रं च तदङ्ककारि च तस्मिञ्जयकारिणि वामचरणे तृणकाष्टादिनिर्मितशत्रुप्रतिमाधारिणि सकलधवलवस्तुषु विरुदावलीधारिणि एतद्दोर्यशसि एतस्य बाहुयशसि सक- लेषु जगत्सु चरति प्रसरति सति । अथ च-स्वप्रतिमल्लगवेषणाय भुवनं परिभ्रमति सति । विभ्यत् भीतं कुमुदं निशि निद्राम् । अथ च-संकोचम् । न प्रयाति । तथा- मल्लिकासुमनसां माल्यं माला अस्माद्भिया ते तव धम्मिल्ले केशपाशग्रन्थिविशेषे लीयते आत्मानं गोपायते । अथ च-अदृश्यं तिष्ठति । तथा-शीतद्युतिश्चन्द्रो धृतदरः प्राप्तभयः सन् पीयूषनवकैतवादमृतस्त्रवणव्याजात्स्विद्यति स्वेदं मुञ्चति । अथ च- हिमकणान्मुञ्चति । 'एकयोद्धा अङ्ककारः' इति वा । कुमुदादिभ्योऽभ्यधिकं धवलमे- तदीयं यश इति भावः। 'वहिर्न धारयेन्माल्यम्' इति केशान्तर्गतमाल्यधारणाद्भैम्याः सदाचारत्वं सूचि[३]तम् ॥